________________
श्री-प्रभाचन्द्र-कृतः कतिपयदिनैः पाठितौ। कौशाम्बीमागत्य पितुः पदे स्थितौ । अथ राजगृहसूर्यमित्रपुरोहितस्यैकदा सन्ध्यायामादित्यायं ददतस्तडागे ३ पद्मोपरि जलेन सह राजकीयमुद्रिका पतिता। रात्रौ भीतेन सुधर्ममुनिः पृष्टः । अबधिज्ञानेन ज्ञात्वा तेन कथिता। प्रभाते तेन गृहीता। केवलीलोभेन सुधर्ममुनिसमीपे सूर्यमित्रो मुनिरभूत् । केवली पुनः पुनः पृच्छन् क्रियामागमं च पाठितो धर्मपरिणतो भूत्वा एकाकी विहरन् कौशाम्ब्यां चर्यार्थमुच्चनीचगृहान् भ्रमन्नग्निभूतिगृहे गतः। अग्निभूतिना च सूर्यमित्रमुनेः परमभक्त्या दानं दत्तम् । वायुभूतिना भणितेनापि वन्दना न कृता प्रत्युत निन्दा कृता। सूर्यमित्रमुनिमनुव्रजताग्निभूतिना धर्ममाकर्ण्य तपो गृहीतम् । अग्निभूतिभार्यया सोमदत्तया तां वार्तामाकर्ण्य दुःखितया वायुभूतिभणितः–रे निकृष्ट, सूर्यमित्रमुनेः प्रणामो न कृतः, निन्दा च कृता, तेन कारणेनाग्निभूतिना तपो गृहीतम् । इत्येवं वदन्ती सा वायु
भूतिना पादेन मुखे हत्वा भणिता त्वमपि तस्यैवाशुचेर्नग्नस्य १५ पार्वे गच्छ । तया रोषान्निदानं कृतम् । जन्मान्तरे तव पादं
सपुत्राहं भक्षयामीति । स वायुभूतिर्मुनिनिन्दाप्रभवपापात्सप्तदिनरुदुम्बरकुष्टेन मृत्वा कौशाम्ब्यां नटस्य गर्दभी जाता। मृत्वा तत्रैव गर्तासूकरी। मृत्वा चम्पानगर्यां चाण्डालगृहे कुकुरी। पुनस्तत्रैव चाण्डालपुत्री अतीव विरूपका दुर्गन्धान्धा च जाता। जम्बूवृक्षतले
महता कष्टेन जम्बूफलानि प्राप्तानि भक्षयन्ती अग्निभूतिमुनिना २१ दृष्टा। भणितं च तेन-केनापि कर्मणा वराकिका कीदृशी जाता
महता कष्टेन जीवति । तच्छ्रुत्वा सूर्यमित्रमुनिनोक्तम्-तवायं भ्राता
वायुभूतिर्गर्दभी शूकरी कुकुरी भूत्वा चाण्डाली भूता। ततस्तेन २४ संबोध्य पञ्चाणुव्रतानि ग्राहिता। मृत्वा चम्पायां पुरोहितनागशर्म
१) बजतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org