________________
कथाकोशः [ ६३ ]
६
अस्य कथा—अयोध्यायां राजा कार्तवीर्यो राज्ञी पद्मावती । अटव्यां तापसपल्लिकायां तापसो जमदग्निर्भार्या रेणुका पुत्रौ श्वेतराममहेन्द्ररामौ । एकदा रेणुकाया भ्राता वरदत्तमुनिः पल्लिकासमीपे वृक्षमूलं गृहीतवान् । तत्पार्श्वे धर्ममाकर्ण्य रेणुकया सम्यक्त्वं गृहीतम् । भगिन्यां स्नेहाद् वरदत्तमुनिः परशुविद्यां कामधेनुविद्यां च दत्त्वा गतः । एकदा कार्तवीर्यो राजा हस्तिधरणार्थं वनमागतो जमदग्निना कामधेनुमाहात्म्येन महाविभूत्या भोजनं कारितः । स च लोभात्संग्रामे जमदग्नि व्यापाद्य कामधेनुं कार्तवीर्यो गृहीत्वा गतः । समिधादिकं गृहीत्वा श्वेतराममहेन्द्ररामौ समायाती । श्वेतरामेणालोक्य रेणुका पृष्टा - किमिति दुःखिता तिष्ठसि । रेणुकया कथिते वृत्तान्ते पुत्रौ योद्धुं चलितौ । रेणुकया दत्तां परशुविद्यां गृहीत्वा ऽयोध्यायां गत्वा श्वेतरामेण सबलवाहनः कार्तवीर्यो १२ मारितो नरकं गतः । ततः श्वेतरामः परशुरामनामा सार्वभौमो
राजा जातः ॥
[ ६३ ] नित्यं च खाद्यमानो भल्लूकेत्यादि ।
[ भल्लुंकीए तिरत्तं खज्जतो घोरवेदट्टो वि । आराधणं पवण्णो झाणेणावतिसुकुमालो ॥ १५३९ ॥ ]
" षडङ्गानि चतुर्वेदा मीमांसान्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥"
Jain Education International
८५
अस्य कथा - कौशाम्बीनगर्यां राजा अतिबलः, पुरोहितः १८ सोमशर्मनामा, भार्या काश्यपी, पुत्रावग्निभूतिवायुभूती । सोमशर्मंणि मृगोत्रिभिगृहीतं तत्पदं मूर्खत्वात्तयो राज्ञा न दत्तं पदम् । ततो ऽभिमानाद्राजगृहनगरे निजपितृव्यसूर्यमित्रसमीपं गतौ । वार्ता च २१ कथिता । तेन च भिक्षाभोजनेन ॥
For Private & Personal Use Only
३
१५
२४
www.jainelibrary.org