________________
६९
कथाकोशः [४७] मुनिः कथयति । कौशाम्ब्यां राजा गान्धर्वानीकस्तस्य सुवर्णकारोऽङ्गारदेवो रत्नसंस्कारकः । तेनैकदा राजकीयमुकुटाग्रपद्मरागमणिमुज्ज्वालयता चर्यायां प्रविष्टो मेदज्जमुनिः स्थापितः। कर्म- ३ शालायां मुनिः प्रवेशितः । तत्समीपे मणि धृत्वा भार्याया वार्ता कथयितुं गतः । स मणिः क्रौञ्चपक्षिणा मांसं मत्वा भक्षितो गले लग्नः । आगतेन तेन मणिमपश्यता मुनिः पृष्टः । मुनिना दयापरेण ६ तं जानतापि मौनं कृतम् । पुनस्तेनोक्तम्-मम सकुटुम्बस्य मरणं भविष्यतीति कथय त्वम् । तथापि मौनमेव मुनेः । ततो रुष्टेन तेन चौरो ऽयमिति मुनिर्बद्धः आहतश्च काष्ठैः । प्रहरतश्च एकं काष्ठं ९ क्रौञ्चगले लग्नम् । निर्गतो मणिः । गृहीतो हाहाकारं कृत्वा मुनिपादयोलग्न इति । यथा तेन स क्रौञ्चभक्षितो मणिर्न कथितः तथाई जानन्नपि न कथयामि तं येन नीतः कलशः । ततः कुबेरदत्तेन १२ महामुनेः कियन्तमुपसर्ग करिष्यतीति भणित्वा आनीय पितुः कलशः समर्पितः। ततो मुनि क्षमापयित्वा जिनदत्तकुवेरदत्तौ तत्पार्वे मुनी जातौ ।।
[४७] पिण्याकगन्धः । [ अत्थणिमित्त घोरं परितावं पाविदूण कंपिल्ले । लल्लक्कं संपत्तो णिरयं पिण्णागगंधो क्खु ॥११४०॥]
अस्य कथा-काम्पिल्यनगरे राजा रत्नप्रभो, राज्ञी विद्युत्प्रभा, राजश्रेष्ठी जिनदत्तश्रावकः । अपरश्रेष्ठी पिण्याकगन्धो द्वात्रिंशत्कोटिद्रव्येश्वरः । लोभात्पिण्याकः खलं भक्षयति । तस्य भार्या सुन्दरी, पुत्रो २१ विष्णुदत्तः। तत्रैकदा राजकीयतडागं खनतैकेन वृद्धोड्डेन किट्टमेक्षितसुवर्णकुशीशतमंजूषा लब्धा। एका कुशी जिनदत्तेन लोहमयीति मत्वा लोहमूल्येन गृहीता सुवर्ण ज्ञात्वा जिनप्रतिमा कारिता। २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org