________________
श्री- प्रभाचन्द्र-कृतः
मुनिः कथयति । चम्पायां सोमशर्मब्राह्मणस्य द्वे ब्राह्मण्यौ, सोमिल्या सोमशर्मा च । सोमिल्यायाः पुत्रो जातः । तत्रैको वृषभो ३ भद्रो गृहे ऽशनघासं लभते कस्यापि कथमपि न घासं ददाति ।
६८
वन्ध्यया सोमशर्मंया एकदा तं बालं मारयित्वा तस्य शृङ्गे प्रोतश्चानेन बालो मारित इति । ब्राह्मणजातिभिः स सर्वैस्त्यक्तः । ६ क्वापि प्रवेशं न लभते । एकदा जिनदत्तराजश्रेष्ठिनो भार्या परदारदोषं प्राप्यात्मशुद्धि कुर्वाणा दिव्यग्रहणार्थं तप्तफालसमीपे बहुजन - मध्ये स्थिता प्रस्ताव प्राप्य भद्रवृषभेणात्मविशुद्ध्यर्थं फालो मुखेन गृहीतः । ततः सर्वैर्निर्दोषो भणितः । अपर्यालोच्य तस्य दोषो दातुं किं युक्तो जनस्य ॥
जिनदत्तः कथयति । गङ्गोपकण्ठे लघुकलभो गर्तायां पतितो १२ विश्वभूतितापसेन दृष्टो निजपल्लिकायां नीत्वा प्रतिपालितः । महान् हस्ती सर्वलक्षणोपेतो जातः । श्रेणिकेनाकर्ण्यागत्य याचयित्वा नीतो बन्धनाङ्कशाभिघातं दृष्ट्वा स्तम्भं भङ्क्त्वा तापससमीपमायात१५ स्तत्पृष्ठे समायातलोकानां संबोध्य समर्प्यमाणेन मारितस्तापसः । तत्कि हस्तिनस्तापसमारणं युक्तम् ||
मुनिः कथयति । हस्तिनागपुरे पूर्वस्यां दिशि विश्वसेनेन राज्ञा १८ उद्यानवनं कारितम् । सर्प गृहीत्वा सौलिका आम्रवृक्ष उपविष्टा । सर्पविषं फले पतितम् । तच्च फलं विषोष्मणा पक्वमुद्यानपालेन तद्राज्ञो दर्शितम् । तेन च धर्मसेनाया राज्ञ्या दत्तम् । तद्भक्षणात् सा २१ मृता । रुष्टेन राज्ञा सर्वमुद्यानं खण्डितम् । परदोषेण किं युक्तं च
तस्य कर्तुं खण्डनम् ॥
जिनदत्तः कथयति । कश्चित्पुरुषो महाटव्यां गच्छन् सिंहमागच्छ२४ न्तमालोक्य भयात्सन्नपल्लीवृक्षं महान्तमारुह्य स्थितः । गते सिंहे मार्गे गच्छता भेरीनिमित्तं महान्तं काष्ठमन्वेषयतां राजपुरुषाणां सन्नवृक्षो दर्शितः । तैश्च स खण्डितः । एतत्किं तस्य युक्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org