________________
कथाकोशः [४६] ग्रहीतुं गतो न पश्यति । भट्टारक एव जानाति तं गृहीत्वा गत इति संचिन्त्य पृष्ठतो लग्नः । त्वया विना भगवन्मम न रतिरिति मायया व्यावानीतः। श्रेष्ठिना मुनिः सद्धर्मकयां पृष्टो मुनिनोक्तम्-स्वमपि ३ कथय चिरश्रावकत्वात् । ततो ऽभिमतार्थ कटाक्षयता तेन कथा कथ्यते । यदा पद्मरथनगरे वसुपालराज्ञा कोशलाधिपतेजितशत्रोर्दूतः प्रेषितः स महाटव्यां तृषितो मूर्च्छया वृक्षतले पतितो वानरेग तं ६ कण्ठगतप्राणमालोक्य स्वच्छसरोवरे निमज्ज्यागत्य तस्योपरि निजशरीरं विध्याग्रे गत्वा तेन तस्य जलं दर्शितम् । स च जलं पीत्वाग्रे गमननिमित्तं तं वानरं हत्वा जलखल्लां कृत्वा गतः । भगवन् किं ९ तस्य वानरमारणं कर्तुं युक्तम् ।। न युक्तमित्युक्त्वा आत्मना निर्दोषत्वं कथयन्मुनिः कथामाह ।। __ कौशाम्ब्यां नगर्यां ब्राह्मणः शिवशर्मा, ब्राह्मणी कपिला पुत्रा। १२ ब्राह्मणेनाटव्यां नकुलपिल्लिको दृष्ट आनीय कपिलायाः पुत्र इति समर्पितः। शिक्षितो भणितं करोति । कपिलाया यः पुत्रो जातस्तं मञ्चके सुप्तं नकुलस्य समर्प्य सा तण्डुलान् खण्डितुं गता । सर्पण पुत्रो १५ भक्षितो मृतः । नकुलः सर्प मारयित्वा रक्तलिप्तमुखः कपिलायाः समीपे गतः। तया पुत्रो ऽनेन मारित इत्याशङ्कय मुसलेनाहत्य मारितः। गृहे आगत्य मारितं सर्प दृष्ट्वा पश्चात्तापः कृतः । १८ श्रेष्ठिन् कि सपिराधे नकुलमारणं युक्तं तस्याः स्यात् ।। न युक्तमिति पुनः श्रेष्ठी कथां कथयति ।। __ वाणारस्यां राजा जितशत्रुर्वेद्यो धनदत्तो, भार्या धनदत्ता, २१ पुत्रौ धनमित्रधनचन्द्रौ न पठितौ। मृते वैद्ये जीवनमन्यवैद्यस्य दत्तम् । धनमित्रधनचन्द्रौ चम्पायां शिवभूतिवैद्यपाश्र्वे वैद्यशास्त्रं ज्ञात्वा व्याधुटितौ । अटवीमध्ये अक्षिरोगपोडितं व्याघ्रमालोक्य २४ लघुना ज्येष्ठः निषिद्धेनापि परीक्षणार्थमौषधं लोचनयोर्दत्तम् । तत्क्षणान्नीरोगेण तेन स एव भक्षितः । एतत्कि तस्य युक्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org