________________
कथाकोशः [४६] [४६] संगो महाभयमित्यादि । [संगो महाभयं जं विहेडिदो सावगेण संतेण । पुत्तेण चेव अत्थे हिदम्हि णिहिदिल्लगे साहुं ।।११३०।। ] दूओ बंभण विग्घो लोओ हत्थी य तह य रायसुयं । पहिय णरो वि य राया सुवण्णयारस्स अक्खाणं ।।*११३१।। वण्णर णउलो विज्जो बसही तावस तहेव चूदवणं । रक्ख सिवण्णी दूंडुह मेदज्जमुणिस्स अक्खाणं ॥ ११३२।।
अस्य कथा-मणिवतदेशे मणिवतनगरे राजा मणिवतो, राज्ञी पृथ्वी, पुत्रो मणिचन्द्रः । एकदा पृथिवीदेव्या राज्ञो मस्तके केशान्विर- ९ लयन्त्या पलितमेकमालोक्य राज्ञो हस्तेन दत्तम् । ततो वैराग्यात्स मणिचन्द्राय राज्यं दत्त्वा मुनिरभूत् । एकाकी विहरन्नुज्जयिन्या श्मशाने रात्रौ मृतकशय्यायां स्थितः । कापालिकेत भट्टारकसमीपे १२ । मृतकद्वयमानीय मस्तकत्रयचुल्ल्यां वेतालविद्यासाधनार्थं मनुष्यकपाले चरुकं रार्धं प्रारब्धम् । मुनिमस्तके ससादाद्याच्चालिते [?] कपाले पतिते भयान्नष्ट: कापालिकः । प्रभाते मुनिः तथा दृष्ट्वा १५ केनचिज्जिनदत्तश्रेष्ठिनः कथितम् । तेन च गृहे समानीतः वैद्य औषधं पृष्टः । तेन कथितम्-सोमशर्मभट्टगृहे लक्षपाकं तैलमस्ति । तैलाभ्यङ्गादग्निदग्धो नीरोगो भवति । गत्वा श्रेष्ठिना तद्भार्या १८ । तुङ्कारी तत्तैलं याचिता। भणितं तया-श्रेष्ठिन् घटमेकं गृहाण । तैलघटं गृहीत्वा निर्गच्छतः स्फुटितो घटः। भीतेन तुङ्कार्याः कथितम् । ततस्तयोक्तमन्यं तैलघटं गृहाण । तथा द्वितीयस्तथा तृतीयो २१ ऽपि स्फुटितः । पुनस्तयोक्तम् । श्रेष्ठिन्मा भयं कुरु यावता प्रयोजनं तावद् गृहाण इति । चिन्तितं श्रेष्ठिना-अहो अस्या अद्वितीया क्षमा । पृष्टा च-किं कारणं कोपं न करोषि त्वम् । कथितं तया-श्रेष्ठिन् २४ ।। कोपस्य फलं मया प्राप्तं तेन तं न करोमि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org