________________
२४
riमान जीवन कोश
टीका- 'लाभा' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः स चैवकारार्थः तस्य च व्यवहितः सम्बन्धः 'ते' तब सुब्धा एव यस्मात् त्वं धर्मचक्रवर्त्तिनां भविष्यसि दशचतुर्द्दशः, चतुर्विंशरतिम इत्यर्थः अपश्चिमो वीरनामेति गाथार्थः । तथा आइगरी दसाराणं (४२४) गाथा पूर्ववत् नेया । एकान्त सम्यग्दर्शनानुरचित हृदयो भावितीर्थकर भक्त्या च तमभिवन्दनायोद्यतो भरत एवाहनाविअ ते पारिवज्जं वंदामि अह इमं च ते जम्मं ।
जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥ ४२८ ॥
टीका- गमनिका - नापि च पारिव्राजामिदं परिव्राज्यं वंदामि अहं, इदं च ते जन्म, किन्तु यद् भविष्यसि तीर्थकर, अपश्चिमस्तेन वंदामीति गाथाथः ।
एवं ह थोऊणं काऊण पदाहिणं च तिक्खुत्तो । आपुच्छिऊण पियरं विणीअणगार अह पविट्ठो ॥। ४२६ ॥
टीका- गमनिका - एवं स्तुत्वा व्हमिति निपातः पूरणार्थो वत्तेते कृत्वा प्रदक्षिणां च त्रिकृत्वः, आपुच्छय पितरं ऋषभदेवं विनीतनगरीम् - अयोध्यायामथ - अनन्तरं प्रविष्टो भरत इति गाथार्थः ॥ मरीचि का जातिमद
तव्वयणं सोऊणं तिवई अप्फोडिऊण तिक्खुत्तो ।
अष्महिअजायहरिसो तत्थ मरीई इमं भणइ ॥ ४३० ।।
टीका - गमनिका - तस्य भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह- त्रिपदीं दत्त्वा रङ्गमध्यगतमल्लवत्, तथा आस्फोट्य त्रिकृत्वः, तिस्रो बारा इत्यर्थः; किविशिष्टः संस्ततः आह - अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने मरीचिरिदंवक्ष्यमाणं भणति, वर्तमान निर्देशप्रयोजनं प्राग्वदिति गाथार्थः ।
जइ वासुदेव पढमो मूआइ विदेह चक्कवट्टित्तं । चरिमो तिखयराणं होउ अलं इतिअं मझ्झ । ४३१ ।। टीका- गमनिका यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्त्तित्वं प्राप्स्यामि तथा चरमः - पश्चिमः तीथ कराणां भविष्यामि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, अलं पर्याप्तमन्येनेवि पाठान्तरं वा 'अहो मए एत्तियं' ति गाथार्थः ।
अहयं च दसाराणं पिया य मे चक्कवट्टिवंसस्स ।
अज्जो तित्थयराण अहो कुलं उत्तमं मम ॥ ४३२ ॥
टीका- गमनिका अहमेव च शब्दस्यैवकारार्थ खात्, किं ? - दसाराणं, प्रथमो भविष्यामिति वाक्यशेषः, पिता च 'में' मम चक्रवर्तिवंशस्य प्रथम इति क्रियाध्याहारः, तथा 'आर्यकः पितामहः स तीर्थकराणां प्रथमः, यत एवमत अहो विस्मये कुलमुत्तमं ममेति गाथार्थः ॥
- आव० निगा ४२१ से ४३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org