________________
वर्धमान जीवन-कोश
२७७ विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः, अथ यदि प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृष्टस्तथापि तेषामात्यन्तिकोऽपि क्षयः सम्भवतीति कथमवसीयते ? उच्यते, अन्यत्र तथा प्रतिबन्धग्रहणात् , यथाशीतस्पशसम्पाद्याः रोमहर्षादयः शीतप्रतिपक्षस्य वह्नमन्दतायां मंदा उपलब्धाः उत्कर्षे च निग्न्वयविनाशधर्माणः, ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्य मन्दतादर्शनाद्वाधकोत्कर्षे बाध्यस्यावश्यं निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां मन्दता न स्यात् , अथास्ति ज्ञानस्य ज्ञानावरणीयं बाधकं, ज्ञानावरणीयकर्ममन्दतायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीयकर्मोदयोत्दर्षेऽपि न ज्ञानस्यनिरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तोच्छेदो भविष्यति, तदयुक्तं, द्विविधंहि बाध्यं-सहभूस्वभावं तदन्यथाभूतं च, तत्र यत् सहभूस्वभावभूतं तन्न कदाचनापि निरन्वयं विनाशनुपयाति, ज्ञानं चात्मनः सहभूस्वभावम , आत्माच परिणामिनित्यः, ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्र्मोदये ज्ञानस्य न निरन्वयो विनाशः, रागदयस्तु लोभादिकर्मविपाकोदयसम्पादितसत्ताक स्ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमपगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादयः, तथापिकर्मा निवृत्तौ ते निवर्तन्ते इति नावश्यं नियमो, नहि दहननिवृत्तौ तत्कृता काष्ठे अङ्गुरता निवत्तते, तदसत् , यत इह किञ्चित् कचित् निवर्त्य विकारमापादयति, यथा अग्निः सुवर्णे द्रवतां, तथाहि-अग्निनिवृत्तौ तत्कृता सुवर्ण द्रवता निवर्त्तते, किञ्चित् पुनः कचित् अनिवर्त्यविकारारम्भकं, यथा स एवाग्निः काष्ठे, न खलु श्यामतामात्रामपि काष्ठदहननिवृत्तौ निवर्त्तते, कर्म चात्मनि अनिवर्त्य विकारारम्भक, भवेत्तर्हि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्तौ निवत्तेत. यथा अग्निना श्यामतामात्रमपि काष्ठे कृतमग्निनिवृत्तौ, ततश्च यदेकदाकर्मणाऽऽपादित मनुव्यत्वममरत्वं कृमिकोटत्वं शिरोवेदनादि च तत्सर्वकालं तथैवावतिष्ठेत, न चैतत् दृश्यते, तस्मान्निवर्त्य विकारारम्भकं कर्म, ततः कर्मनिवृत्तौ रागादीनामपि निवृत्तिः, यदपि च प्रागुपन्यस्तं प्रमाणं 'यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाश' मिति तदप्यप्रमाणं हेतोरनैकान्तिकत्वात् , प्रागभ वेन व्यभिचारात् , तथाहि -प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथाकार्यानुत्पत्ते ?, भावनाधिकारी च सम्यग्दर्शनादिरत्नत्रयसम्पत्समन्वितो वेदितव्यः, इतरस्य तदनुरूपानुष्ठानप्रवृत्त्यभावेन तस्या मिथ्यात्वरूपत्वात् , आह च प्रवचनम"नाणी तवमि निरओ चारित्ती भावणाए जोगो" त्ति, सा च भावना रागादिदोषनिदानस्वरूपविषयफलगोचग यथागममवसा तव्या, जं कुच्छियाणुजोगो पयइविसुद्धस्स चेव जीवस्स। एएसिमो नियाणं बुहाण न य सुन्दरं एयं ॥१॥ रूवपि संकिलेसोऽभिस्संगापीइमाइलिंगाउ । परमसुहपच्चणीओ एयपि असोहण चेव ।।२।। विसओ य भंगुरो खलु गुणरहिओ तह य तहऽतहारूवो! संपत्तिनिप्फलो केवलं तु मूलं अणत्थाणं ।३। जम्मजरामरणाई विचित्तरूवो फलं तु संसारो। बुहजणनिव्वेयकरो एसोवि तहाविहो चेव ॥४॥
(धर्म० ११६६-७०-१-२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org