________________
२७६
वर्धमान जीवन-कोश .४६ (ख)-ग्यारहवें गणधर-प्रभास .१ प्रभास गणधर का भगवान महावीर के पास आगमन और दीक्षा ग्रहण(क) एकादशः प्रभासः (गणधरमध्ये)
-आव० निगा ५६४/टीका . ग्यारहवें प्रभास गणधर थे। (ख) ते पव्वइए सोउं पभास आगच्छई जिणसग से । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ।६३८
मलय टीका-व्याख्या पूर्ववत् , नवरं प्रभास आगच्छतीति नानात्वं । आभट्ठो य जिणणं जाइजरामरणविप्पमुक्केण । ना.ण य गोत्तेण य सव्वन्नूसव्वदरिसीण।६३४। मलय टीका-अस्याः सपातनिका व्याख्या पूर्ववत् । किं मन्ने निव्वाणं अत्थी नत्थित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो।६४० मलय टीका-किं निर्वाणमस्ति किं वा नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव 'विरुद्धवेदपदश्रुतिनिबन्धनः, तानि च वेदपदान्यमूनि-जरामयं वा एतत्सर्वं यदग्निहोत्रं' तथा सैषा गुहा दुःरवगाहा, तथा 'द्वे ब्रह्मणी परमपरं च तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्म' ति, तेषां च यमर्थस्त्व चेतसि वर्तते-यदेतदग्निहोत्रं तत् जरामर्य मेव-यावज्जीवं कत्तव्यमिति, अग्निहोत्रक्रिया च भूतवधहेतुत्वात् सबलरूपा, साच स्वर्गफलैवस्यात् , नापवर्गफला, यावज्जीवमिति चोक्त कालान्तरं नास्ति यत्रापवर्गहेतुभूतक्रियान्तरारम्भः स्यात् , तस्मात्साधनाभावात् मोक्षाभावः, तदेवममूनि किल वेदपदानि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वसूचकानि, यतो गुहाऽत्र मुक्तिरूपा, सा च संसाराभिनन्दिना दुरवगाहादुष्प्रवेशा, तथा परं ब्रह्म सत्यं-मोक्षः, अनन्तरं तु ज्ञानमिति, अमूनि मोक्षास्तित्वप्रतिपादकानीति तव संशयः, तथा सौम्य ! त्वमित्थं मन्यसे-संसारभवो मोक्षः संसारश्च रागादिनिबंधनः, रागादीनां चात्यन्तिकः क्षयोऽनुपपन्नः, तथाहि-रागादयो जन्तोरनादिमन्तो, यच्चाना दिमत न तद्विनाशमाविशति, तथा प्रमाणेन प्रतीतेः, तच्च प्रमाणमिदं-यद् अनादिमत् न तद् विनाशमावि-. शति, यथाऽऽकाशम् , अनादिमन्तश्च रागादय आत्मनो व्यतिरिक्ता वा, भवेयुव्यतिरिक्ता वा ? व्यक्तिरेके सर्वेषां वीतरागत्वप्रसङ्गः, रागादिभ्यो व्यतिरिक्तत्वात् , विवक्षितपुरुषवत् , अथाव्यतिरिक्तास्ततस्तत्क्षये आत्मनोऽपि क्षयप्रसङ्गः, तदव्यक्तिरिक्तत्वात् , तत्त्वरूपवत् , तथा च कुतस्तस्य वस्तुतो मोक्ष ?, तस्यैवाभावादिति, तत्र वेदपदानां चार्थ, च शब्दात् , युक्तिं हृदयं च न जानासि, यतस्तेषामयमर्थः 'जरामयं वे' ति वाशब्दोऽप्यर्थे, ततश्च यदेतदग्निहोत्रं तत् यावज्जीवं सर्वमपि कालं कर्त्तव्यम् , वाशब्दात् मुमुक्षुभिर्मोक्षहेतुभूतमप्यनुष्ठान विधेयमिति नापवर्गप्रापणक्रियारम्भकालास्तिता निषिद्धा, तथा यद्यपि रागादयो दोषा जान्तोरनादिमन्तस्तथापि कस्यचित्स्त्रीशरीरादिषु यथावस्थितवस्तुतत्त्वावगमेन तेषां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते, ततः सम्भाव्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org