________________
२७८
वर्धमान जीवन-कोश : .. अपिच-सूत्रानुसारेण ज्ञानादिषु यो नैरन्तयेणाभ्यासस्तद्र पा भावना वेदितव्या, तस्या अपि
रागादिप्रतिपक्षत्वात , नहि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासव्यापृतमनस्कस्य स्रोशरीररामणीकादिविषयः चेतः प्रवृत्तिमातनोति, तथानुपलम्भात् , यदप्युक्तं, किञ्च-रागादयआत्मनो व्यतिरिक्ता वा भवेयुख्यतिरिक्ता वा, इत्यादि, तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात् , केवलभेदाभेदपक्षे, धर्मधमिभावानुपपत्ते, तथाहि-धर्मधमिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धम्मिणो निःस्वभावतापत्तिः, स्वभावस्यापि धर्मत्वात् । तस्य च ततोऽन्यत्वात् , स्वःभावः म्वभावः स्वस्यैव चात्मीया सत्ता, न तु तदर्थान्तिरं धर्मरूपं, ततो न निःस्वभावतापत्तिरिति चेत्न, इत्थं स्वरूपसत्ताभ्युपगमे तदपरसत्तासामान्ययोगकल्पनावैयर्थ्यप्रसङ्गात, अपिच–ज्ञ यत्वादिभिर्धमॅरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, 'न ह्यज्ञ यस्वभावं ज्ञातुं शक्यते' इति न्यायात , तथा च तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात् , तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् अनवगतरच षष्ठभूतादेर्भावापत्तेः, एवं च धर्म्यभावे धर्माणामपि ज्ञ यत्वप्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः, नहि धर्माधाररहिताः, कापि धर्माः सम्मवन्तीति, अन्यच्च-परस्परमपि तेषां धर्माणामेकान्तेन भेदाम्युपगमे सत्त्वाद्यभ्युपगमेऽपि सत्त्वाद्यननुवेधात् कथं भावाभ्युपगमः ? तदन्यसत्त्वादिधर्माभ्युपगमे च धमित्वप्रसक्तिरनवस्थावत्ता च, तन्नैकान्तभेदपक्षे धम्मिधर्मभावोपपत्तिः, नाप्पेकान्ताभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्मयात्रं वा स्यात् , धर्मिमात्रं वा, अन्यथैकान्तभेदायोगात् , अन्यतराभावे चान्यतरस्याभावः । परस्परनान्तरीयकत्वात् , धर्मानन्तरीयको हिधम्मिधन्मिनान्तरीयकश्च धर्माः, ततः कथमेकस्याभावेऽपरस्यावस्थानमिति, कल्पितो धर्मम्मिभावस्ततो न दूषणमिति चेत् , तर्हि वस्त्वभावप्रसङ्गः, नहि धर्मधम्मिस्वभावरहितं किञ्चिदवस्त्वस्ति, धर्मधम्मिभावश्च कल्पित इति तदभावप्रसङ्गः धर्मा एवकल्पिता न धर्मी तत्कथमभावप्रसङ्ग, इति चेन्न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽमत्त्वाभ्युपगमाद्, तद्भ,वे धम्मिणोऽप्यभावापत्ते, अथ तदेवैकं स्वलक्षणं सकलसजातीयव्यावृत्तकस्वभावं धम्मि विजातीयव्यावृतिनिबन्धनाश्च या व्यावृत्तयो भिन्नाइव कल्पितास्ता धर्माः; ततो न कश्चिद्दोष. तदप्ययुक्तम एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तेः अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात् , नहि येनैव स्वभावेन घटाद् व्यावर्त्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य पटरूपताप्रसक्ते. तथाहि-घटाद् व्यावर्त्तते पटो घटव्यावृत्तिस्वभावतया, स्तम्भादपि चेत् घटव्यावृतिस्वभावतयैव व्यावर्तते तईि बलात् स्तम्भस्य घटस्वरूपताप्रसक्तिः, अन्यथा ततस्तत्स्वभावतया तव्यावृत्त्ययोगात् तस्मात् यतो व्यावर्त्तते यत् तत्तव्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः ते च नैकान्तेन धर्मिणो भिन्नास्तदभावप्रसङ्गात् तथा च तदवस्थ एवं पूर्वोक्तो दोषः तस्माद् भिन्नाभिन्नाः भेदाभेदोऽपि धर्मधमिणोः कथमितिचेत् , उच्यते; इह यद्यपि तादात्म्येन धर्मिणा धर्माः सर्वे लोलीभावेन व्याप्तास्तथाऽप्ययं धमी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org