________________
वर्धमान जीवन-कोश
२७३ टीका-'अयलभाय' त्ति अचलो महावीरस्य नवमो गणधरः, तस्यायुर्द्धिसप्ततिवर्षाणि, कथं ?, पट्चत्वारिंशद्गृहस्थत्वे द्वादश छद्मस्थतायां चतुर्दशकेवलित्वे इति ।
अयलभाता बहत्तर वर्ष की सर्वायु पालकर सिद्ध, बुद्ध, मुक्त हुए यावत् सर्वदुःखों से रहित हुए। .४६ (क) दशम गणधर-मेतार्य .१ मेतार्य गणधर का श्रमण भगवान महावीर के पास आगमन और दीक्षा ग्रहण (क) ते पव्वइए सोउ मेयज्जो आगच्छई जिणसगासं । वच्चामि ण वंदामि वंदित्ता पज्जुवासामि ॥६३४।।
मलय टीका---पूर्ववत् , नवरं मेताय आगच्छतीति नानात्वम्। किं मन्ने परलोगो अत्थी नत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो।६३६ मलय टीका-किं परलोको-भवान्तरगतिलक्षणोऽस्ति किं वानास्तीतिमन्यसे, व्याख्यान्तरं पूर्ववत् ! अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तानि च वेदपदान्यमूनि-विज्ञानघन एवैतेभ्यो भूतेभ्य' इत्यादीनि, तथा 'सर्व अयमात्मा ज्ञानमय, इत्यादीनि च प्रथमगणधरवक्तव्यतायामिव भावनीयानि, तथा सौम्य ! त्व मित्थं मन्यसे-भूतसमुदायधर्मश्चैतन्यमिति कुतो भवान्तरलक्षणपरलोकसम्भवो, भूतसमुदायविनाशे चैतन्यस्यापि विनाशात् , अन्यच्चभवेदात्मा तथापि स नित्योऽनित्यो वा ? तत्र नित्यपक्षेऽप्रच्युतानुत्पन्नस्थिरैकस्वभावतया विभतया च परलोकाभावः, अनित्यपक्षेऽपि निरन्वयविनश्वरस्वभावतया कारणक्षणस्य सर्वथा विनाशे उत्तरकालमिह लोकेऽपि क्षणान्तराप्रभव इति कुतः परलोक सम्भवः ? तत्र वेदानां चार्थं च शब्दादयुक्तिं हृदयं च, तेषां च वेदापदानामयमर्थः-तत्र विज्ञानघनेत्यादीनां पूर्ववद्वाच्यः, न च भूतसमुदायश्चैतन्यं, सन्निकृष्टदेहोपलब्धावपि चैतन्यविशेषानुपलम्भात, इह यस्मिन्नुपलब्धेऽपि यदवश्यं नोपलभ्यते तत् ततो भिन्न, यथा घटात् पटः, नोपलभ्यते च देहोपलब्धावपि चैतन्यविशेष इति, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात् , इह यत् यस्य चलादिचेष्टानिमित्तं तत्ततो भिन्नं इन्ट, यथा महत् पादपात् , चलनादिचेष्टानिमित्तं च चैतन्य दहस्येति न देहस्य धर्मश्चैतन्यं, किन्त्वात्मनः, तस्य चानादिमतकमसन्ततिसमालिङ्गितत्वादुत्पादव्ययध्रौव्ययुक्तत्वाच्च । कर्मपरिणामापेक्षा मनुयादिपर्यायनिवृत्त्या देवादिपर्यायान्तरप्राप्तिररत्यविरद्धेति परलोकसिद्धिः यदपि च नित्यानित्यकान्तपक्षोक्तं दूपण तदपि जात्यन्तगत्मकनित्यानित्यशबलरूपपक्षाभ्युपगमेन तिरस्कृतत्वान्ननोढौकत इति
-आव निगा ६३४ से ६३६ (ब) मेतायः स्वामिनमगात् स्वाम्यूचे तवधीरिया। भवान्तरप्राप्तिरूप: परलोको न विद्यते ।।१५१।।
भतसंदोहरूपत्वाज्जीवस्येह चिदात्मनः। परलोकः कथंभूताऽभावे तस्याप्यभावतः ।।१५२।। तदसत खलुजीवस्य भूतेभ्यो हि स्थितिः पृथक् । पिण्डितेष्वपि भूतेषु चेतनानुपलम्भतः ।।१५३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org