________________
१५८
वर्धमान जीवन-कोश इत्यभिष्टुत्य विरते बिडोजसि जगद्गुरुः । सर्वभाषाजुषा वाचा विदधे देशनामिति ॥३८॥ . अहो अपारः संसारः सरस्वानिव दारुणः । कारणं तस्य कर्मैव हन्त बीजं तरोरिव ।।३।। कर्मर्णा स्वकृतेनैव विवेकपरिवर्जितः।। कूपकारइवाधस्ताद्गतिमाप्नोति देहभृत् ॥४०॥ अप्यूर्ध्वगतिमाप्नोति निजनैव हि कर्मणा । प्रासादकारक इव शरीरी विशदाशयः ॥४॥ प्राणातिपातं नो कुर्यात् कर्मबंधनिबंधनम्। स्वप्राणवत् परप्राणपरित्राणपरो भवेत् ॥४२॥ न मृषा जातु भाषेत किं तु भाषेत सूनृतम् । परपीडां परिहरन्नात्मपीडामिवांगवान् ॥४३।। अदत्तं नाददीऽतार्थ बाह्यप्राणोपमं नृणाम् । अर्थ हि हरता तेषां वध एव कृतो भवेत् ॥४४॥ मैथुनं म विदध्याच्च बहुजीवोपमर्दकम् । ब्रह्मव कुर्यात्तत्प्राज्ञः परब्रह्मनिबंधनम् ॥४५॥ परिग्रहं न कुर्याच्च परिग्रहवशेन हि। गोरिवाधिकनारेण विधुरो निपतत्यधः ।।४६॥ एतान्प्राणातिपातादीन् सूक्ष्मांस्त्यक्तं न चेत्क्षमाः । त्यजेयुर्बादरांस्तर्हि सूक्ष्मत्यागेऽनुरागिणः ॥४७॥ इत्थं च देशनां भर्तुः शृण्वन्तोऽवहिता जनाः। तस्थुरानन्दनिस्पन्दा आलेख्यलिखिता इव ॥४८॥
-त्रिशलाका० पर्व १८/सर्ग ५ उप्पन्नंमि अणते नटुम्मि अ छाउमथिए नाणे । राईए संपत्तो महसेणवणम्मि उज्जाणे ।।
-आव० नि गा ५३८ मलय टीका-उत्पन्ने-प्रादुर्भूते अनन्ते- अनंतज्ञ यविषये, कस्मिन् ?- ज्ञाने केवलज्ञाने नष्टे च छाद्मत्थिके मत्यादिरूपे ज्ञाने, देशज्ञानव्यवच्छेदेन केवलज्ञानसभावाद्, भावितं चैतत् प्रथमपीठिकायां, रात्रौ सम्प्राप्तो महसेनवने उद्याने, किमिति चेत् ? उच्यते भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाश्चतुर्विधा अप्यागता आसन् , अत्यद्भुतां च प्रहर्षवन्तो ज्ञानोत्पादमहिमां चक्र, तत्र भगवान् अवबुध्यते-नात्र कश्चित्प्रव्रज्याप्रतिपत्ता विद्यते, तत एतद् विज्ञाय न विशिष्टधर्मकथनाय प्रवृत्तवान् , केवलं कल्प एषः-यत्र ज्ञानमुत्पद्यते तत्र जघन्यतोऽपि मुहूर्त्तमात्रमवस्थातव्यं देवकृता च पूजा प्रतीच्छनीया धर्मदेशना च कर्त्तव्येति संक्षेपतो धर्मदेशनां कृत्वा द्वादशसु योजनेष मध्यमानाम नगरी, x x x । अमरनररायमहिओ पत्तो वरधम्मचक्कवट्टित्तं । बीअंपि समोसरणं पावाए मज्झिमाए उ ।।
-आव: नि गा ५३६ मलय टीका-अमरा-देवाः नरा-मनुष्याः तेषां राजानस्तैर्महितः- पूजितः प्राप्तो धर्मवरचक्रवत्तित्वं धर्मवरप्रभुत्वं, द्वितीयं पुनः समवसरणं, अपिशब्दः पुनरर्थे, पापायां मध्यमायां प्राप्त इत्यनुत्तते । ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता। x x x एवं जाव मज्झिमाए णगरीए महसेणवणं उजाणं संपत्तो। तत्थ देवा बितियं समोसरणं करेंति, महिमंच सुरुग्गमणे, एग जत्थ नाणं बितियं इमं चेव ।
-आव० चू० पूर्व भाग/पृ० ३२३-३२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org