________________
१३०
पुद्गल-कोश (ख) उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम् ; यदुत्पद्यते, यद् व्येति यच्च ध्रुवं तत् सत् ; अतोऽन्यदसदिति ।
--सिद्ध ० अ ५ । सू २९-- भाष्य (ग) चेतनस्याचेतनस्य वा द्रव्यस्य स्वां जातिमजहत उभयनिमित्तवशाद् भवान्तरावाप्तिरुत्पादनमुत्पादः। मृत्पिडस्य घटपर्यायवत्। तथा पूर्वभावविगमनं व्ययः। यथा घटोत्पत्तौ पिंडाकृतेः। अनादिपारिणामिकस्वभावेन व्ययोदयाभावाद् ध्रुवति स्थिरीभवतीति ध्रुवः। ध्र वस्य भावः कर्म वा ध्रौव्यम्। यथा मृत्पिडघटाद्यवस्थासु मृदाद्यन्वयः तैरुत्पादव्ययध्रौव्यर्युक्तं उत्पादव्ययध्रौव्ययुक्तं सदिति ।
-सर्व० अ ५ । सू ३० (घ) रुवाइदव्वयाए न जाइ न य वेइ तेण सो निच्चो। एवं उप्पाय-व्वय-धुवस्स हावं मयं सव्वं ॥
-विशेभा• गा १९६५ ___टीका-रूप-रस-गंध-स्पर्शरूपतया मृद्रव्यरूपतया चासो मृत्पिण्डो न जायते नापि व्येति विनश्यति । ततस्तद्रूपतया नित्योऽयमुच्यते, तेन रूपेण तस्य सदेवावस्थितत्वात् । तदेवं मृस्पिडो निजाकारस्वशक्तिरूपतया विनश्यति, घटाकारतच्छक्तिरूपतयोत्पद्यते, रूपादिभावेन मृद्रव्यरूपतया चावतिष्ठते, इत्युत्पाद-व्यय-ध्रौव्यस्वभावोऽयमुच्यते । एवं घटोऽपि पूर्वपर्यायेण विनश्यति, घटाकारयता तूत्पद्यते, रूपादिवेन मृद्रव्यतया चावतिष्ठत इत्यसावप्युत्पाद-व्यय-ध्रौव्यस्वभावः । एवमन्यदपि यदस्ति वस्तु, तत् सर्वमप्युत्पाद-यव्य-ध्रौव्यस्वभावमेवाभिमतं तीर्थकृताम् । (च) भावस्स पत्थि णासो पत्थि अभावस्स चेव उप्पादो। गुणपज्जएसु भावा उप्पादवए पकुव्वंति ॥
-पंच० अधि १ । गा १५ टीका-भावस्य ततो हि द्रव्यस्य न द्रव्यस्वेन विनाशः। अभावस्यासतोऽन्यद्रव्यस्य न द्रव्यत्वेनोत्पादः। किंतु भावाः सन्ति द्रव्याणि सदुच्छेमसदुत्पादं चान्तरेणैव गुणपर्यायेषु विनाशमुत्पादं चारंभते। यथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org