________________
मोक्ष ]
४६) । २५. प्रभावे बन्धहेतुनां निर्जरायां च भास्वरः । समस्तकर्म विश्लेषो मोक्षो वाच्योऽपुनर्भवः ॥ ( योगसा. प्रा. ७ - १) । २६. मोक्ष्यतेऽस्यते येन मोक्षणमात्रं वा मोक्षः । निरवशेषाणि कर्माणि येन परिणामेन क्षायिकज्ञान-दर्शन यथाख्यातचारित्रसंज्ञितेनास्यन्ते स मोक्षः, विश्लेषो वा समस्तानां कर्मणाम् । (भ. श्री. विजयो. १३४) । २७. णिस्सेकम्ममुक्खो सो मुक्खो जिणवरेहि पण्णत्तो । रायदोस भावे सहावथक्कस्स जीवस्स || ( भावसं. दे. ३४६ ) | २८. सव्वस्स कम्मणो जो खयहेदू अप्पणी हु परिणामो । यो सो भावमुक्खो दव्वविमुक्खो
कम्मभावो ॥ ( द्रव्यसं. ३७ ) । २६. अनन्तचतुष्टय स्वरूप लाभलक्षणमोक्षप्रसिद्धेः X ×× । ( न्यायकु. ७६, पृ. ८३६) । ३० वदन्ति योगिनो मोक्षं विपक्षं जन्मसन्ततेः । निष्कलङ्क निराबाधं सानन्दं स्वस्वभावजम् ॥ ( ज्ञाना. १-४५ ) ; नि:शेषकर्मसम्बन्धपरिविध्वंसलक्षणः । जन्मनः प्रतिपक्षो यः स मोक्षः परिकीर्तितः ॥ दृग्वीर्यादिगुणोपेतं जन्मक्लेशः परिच्युतम् । चिदानन्दमयं साक्षान्मोक्षमात्यन्तिकं विदुः । प्रत्यक्षं विषयातीतं निरोपम्यं स्वभावजम् | अविच्छिन्नं सुखं यत्र स मोक्षः परिपठ्यते ॥ (ज्ञाना. ६-८, पृ. ६२ ) । ३१. कृत्स्नकर्मक्षयो मोक्षो भव्यस्य परिणामिनः । ज्ञान- दर्शनचा - रित्रत्रयोपायः प्रकीर्तितः ॥ ( चन्द्र च १८ - १२३ ) । ३२. जीव- पुद्गल संश्लेषरूपबन्धस्य विघटने समर्थः स्वशुद्धात्मोपलब्धिपरिणामो मोक्षः । (बृ. द्रव्यसं. टी. २८, पृ. ७६ ) ; निरवशेषनिराकृतकर्म मलकलङ्कस्याशरीरस्यात्मन प्रात्यन्तिक- स्वाभाविका चिन्त्याद्भुतानुपमसकल विमलकेवलज्ञानाद्यनन्तगुणास्पदमवस्थान्तरं मोक्षो भण्यते XXX । (बृ. द्रव्यसं. टी. ३७, पृ. १३९ ) । ३३. श्रानन्दो ज्ञानमैश्वर्यं वीर्य परमसूक्ष्मता । एतदात्यन्तिकं यत्र स मोक्षः परिकीर्तितः ॥ ( उपासका ४५ ) ; आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्म लक्षयात् । नाभावो नाप्यचैतन्यं न चैतन्यमनर्थकम् ॥ ( उपासका. ११३) । ३४. मुच्यतेऽनेन मुक्तिर्वा मोक्षो जीवप्रदेशानां कर्मरहि तत्वं स्वतंत्र भावः । ( मूला. वृ. ५-६ ) । ३५. णिस्सेसम्ममोक्खो मोक्खो जिणसासणे समुद्दिट्ठो । तम्हि कए जीवोsयं श्रणुहवइ प्रणंतयं सोक्खं ॥
ल. ११८
[ मोक्ष
( वसु. श्री. ४५ ) ; ३६. मोक्षः स्वात्मोपलब्धिः । ( प्रा. मी. वसु. वृ. ४० ) । ३७. भाव द्रव्यात्मकाशेषकर्म - नोकर्मणां क्षयात् । भाव द्रव्यात्मको मोक्षचारुचारित्र सम्पदा ।। (झाचा. सा. ३-४१) । ३८. सकलकर्मविप्रमोक्षलक्षणो मोक्षः । (बृहत्स्व. टी. ११० ) । ३६. स्वस्वभावजमत्यक्षं यदस्मिन् शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीतितः ॥ (योगशा. स्वो विव. १-१६, पृ. ११५ उद्) । ४०. मोचनं कर्म्म- पाशवियोजनमात्मनो मोक्षः । ( स्थाना. अभय वृ. १ - १० ) । ४१. मोक्षः श्रशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा । (प्राचा. शी. वृ. १, ५, ६, १७२) । ४२. पुद्गल परिणामकर्म - शरीरसम्बन्धो बन्वस्ततो विश्लेषो मुक्ति: । (बृ. सर्वज्ञसि. पृ. १८७) । ४३. तयोरेवाऽऽत्यन्तिकः पृथग्भाव: : ( उत्तरा. नि. शा. वृ. ४) । ४४, मोक्षोsशेषकर्म वियोगलक्षणो XXX । ( त. भा. कारिका. दे. वृ. ५) । ४५. मोक्ष: सकलकर्म्मसलविकलतालक्षणः । ( धर्मसं. मलय. वृ. ११७५ ) । ४६. येन कृत्स्नानि कर्माणि मोक्ष्यन्तेऽस्यन्त श्रात्मनः । रत्नत्रयेण मोक्षोऽसौ मोक्षणं तत्क्षयः स वा ॥ ( अन. ध. २-४४) । ४७. मोक्ष्यन्तेऽस्यन्ते श्रात्मनः पृथक् क्रियन्ते समस्तानि कर्माणि येन सम्पूर्णरत्नत्रयलक्षणेनात्मपरिणामेन स मोक्षः । अथवा मोक्ष्यते विश्लि ष्यते जीवो येन नीरसीभूतेन कर्मणा तच्छादितफलदानसामथ्यं कर्म मोक्षः । यदि वा मोक्षणं मोक्षः जीव-कर्मणोरात्यन्तिको विश्लेषः । (भ. प्रा. मला. ३८ ) । ४८. प्रभावाद् बन्धहेतुनां निर्जरायाश्च यो भवेत् । निःशेषकर्म निर्मोक्षः स मोक्षः कथ्यते जिनः ॥ ( धर्मश. २१ - १६० ) । ४६. मोहस्तु संबनिर्जराभ्यामात्यन्तिको वियोगः कर्मभिः । (प्रमाल. ३०५) । ५०. मोक्षः कृत्स्नकर्मक्षयः । (स्याद्वादम. २७, पृ. ३०२) । ५१. अष्टकर्मक्षयान्मोक्षः XX X | ( विवेकवि ८ - २५३, पृ. १८८ ) । ५२. सकलकर्मक्षये लोकाग्रप्रदेशे नित्यज्ञानानन्दमयश्च मोक्ष: । (गु. गु. षट्. स्वो वृ. ५) । ५३. व मंक्षयेण जीवस्य स्वस्वरूपस्थितिः शिवम् | ( षड्द स. राज. १६) । ५४. XX X जीवस्य समस्तकर्म मलकलंकरहितत्वं अशरीरत्वमचिन्तनीयसर्गिक ज्ञानादिगुणसहिताव्याबाधसोख्यं ईदृशमात्यन्ति
Jain Education International
६३७, जंन - लक्षणावलो
For Private & Personal Use Only
www.jainelibrary.org