________________
भाषासमिति ]
५ - ११०; भ. प्रा. १९६२ ) । ३. हित- मितासंदिधानवद्यार्थ नियतभाषणं भाषासमितिः । ( त. भा. ६- ५ ) । ४. हितमितासंदिग्धाभिधानं भाषासमितिः । (त. वा. ६, ५, ५; त. इलो. ६ - ५ ) । ५. आत्मने परस्मै च हितमायत्यां तदात्वे चोपकारकं मुखवसनाच्छादितास्येन, नातिबहु प्रयोजनमात्रसाधकमिदम्, असंदिग्धं सूक्तवर्णमर्थप्रतिपत्तौ वा न सन्देहकारि, निरवद्यार्थमनुपघातकं षण्णां जीवनिकायानांम्, एवंविधं च नियतं सर्वदैव भाषणं भाषासमिति: । ( त. भा. हरि वृ. ६ - ५ ) । ६. भाषणं भाषा, तद्विषया समितिर्भाषासमितिः । उक्तं चभाषासमितिर्नाम हित- मितासन्दिग्धार्थ भाषणम् । ( श्राव. हरि. वृ. पृ. ६१६ ) । ७. त्यक्त्वा कार्कश्य पारुष्यं यतेर्यत्नवतः सदा । भाषणं धर्मकार्येषु भाषासमितिरिष्यते 11 (ह. पु. २ - १२३ ) । ८. आत्मने परस्मै हितमायत्यामुपकारकं मुखवसनाच्छादिता यता, नातिबहु प्रयोजनमात्रसाधकम् मितम्, असं दिदिग्धं सूक्तं अर्थ वर्णप्रतिपत्ती वा न सन्देहकारि निरवद्यार्थमनुपघातकं षण्णां जीवकायानाम्, एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः । आह चत्यक्तानृतादिदोषं सत्यमसत्यानृतं च निरवद्यम् । सूत्रानुयायि वदतो भाषासमितिर्भवति साधोः ॥ ( त. भा. सिद्ध. वृ. ६-५) । ६. व्यलीकादिविनिर्मुक्तं सत्यासत्यामृषाद्वयम् । वदतः सूत्रमार्गेण भाषास मितिरिष्यते ॥ ( त. सा. ६-८ ) । १०. दशदोषविनिर्मुक्तां सूत्रोक्तां साधुसम्मताम् । गदतोऽस्य मुने र्भाषां स्याद्भाषासमितिः परा ।। (ज्ञानार्णव १८-६६ पृ. १८९ ) । ११. भाषासमितिः श्रुतधर्माविरोधेन पूर्वापरविवेक सहित मनिष्ठुरादि वचनम् । (मूला. वृ. १- १० ) । १२. भेद - पैशून्य - परुषप्रहासोक्त्यादिवर्जिता । हित-मिता निःसन्देहा भाषा भाषासमित्याख्या || ( श्राचा. सा. १ - २३ ) ; मित- सत्य - हितस्योक्तिर्मन:सन्देहभेदिनः । वचसोऽनुभयस्यापि भाषासमितिरिष्यते । ( याचा. सा. ५-६१ ) । १३. भाषासमितिः निरवद्यवचनप्रवृत्तिः । ( समवा. अभय वृ. ५) । १४. श्रवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ।। (योग शा. स्वो विव. १-४२ ) । १५. कर्कशा परुषा कवी निष्ठुरा परकोपिनी । छेदङ्करा मध्यकृशातिमानिन्यनयङ्करा ॥ भतहिंसाकरी चेति दुर्भाषां दश
Jain Education International
८६३, जैन-लक्षणावली
[भाषासमित्यतिचार
धा त्यजन् । हितं मितमसन्दिग्धं स्याद् भाषासमितो वदन् । (अन. ध. ४, १६५-६६ ) । १६. हितं परमितमसन्दिग्धं सत्यमनसूयं प्रियं कर्णामृतप्रायमशंकाकरं कषायानुत्पादकं सभास्थानयोग्यं मृदु धर्माविरोधि देश-कालाद्युचितं हास्यादिरहितं वचोऽभिधानं सम्यक् भाषासमितिर्भवति । (त. वृत्ति श्रुत. ६.५ ) । १७. भाषासमितिः श्रागमानुसारेण वचनम् । ( चारित्रप्रा. टी. ३६) । १८. परबाधाकरं वाक्यं न ब्रूते धर्मदूषितम् । यस्तस्य समितिर्भाषा जायते वदतो हितम् ॥ ( धर्मसं. ६ - ५ ) । १६. हितं यत्सर्वजीवानां निरवद्यं मितं वचः । तद्धर्महेतोर्वक्तव्यं भाषासमितिरित्यसौ । तदुक्तम् — सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयात् सा भाषासमितिर्भवेत् ॥ ( लोकप्र. ३०, ७४५-४६) । २०. वचो धर्माश्रितं वाच्यं वरं मौनमथाश्रयेत् । हिंसाश्रितं न तद्वाच्यं भाषासमितिरिष्यते ।। (लाटीसं. ५ - २२७ ) । २१. भाषाजात वाक्यशुद्धयध्ययनप्रतिपादितां सावद्यां भाषां घूर्त्त कामुक क्रव्याद-चौरचार्वाकादिभाषितां निर्दम्भतया वर्जयतः सर्वजनीनं स्वल्पमप्यतिप्रयोजनसाधकमसन्दिग्धं च यद्भाषणं सा भाषासमिति: । ( धर्मसं. मान ३-४७, पृ. १३१) ।
1
१ पैशुन्य, हास्य, कर्कश, परनिन्दात्मक और श्रात्मप्रशंसारूप वचन को छोड़कर जो स्व और पर के लिए हितकर वचन को बोलता है उसके भाषासमिति होती है । ३ हितकर, परिमित, सन्देह से रहित और निष्पाप अर्थ के सूचक वचन के सदा बोलने का नाम भाषासमिति है । भाषासमित्यतिचार - इदं वचनं मम गदितुं युक्तं न वेति अनालोच्य भाषणम्, अज्ञात्वा वा । अत एवोक्तम्- 'अपुट्ठो दु ण भासेज्ज भासमाणस्स अंतरे' इति । श्रपृष्टश्रुतधर्मतया मुनिः अपृष्ट इत्युच्यते । भाषासमितिक्रमानभिज्ञो मौनं गृह्णीयात् इत्यर्थः । एवमादिको भाषासमित्यतिचारः । ( भ. प्रा. विजयो. १६) ।
यह वचन बोलने योग्य है या नहीं, इस प्रकार का विचार न करके भाषण करना, अथवा बिना जाने भाषण करना तथा बिना पूछे भाषण करना; इत्यादि भाषासमिति के प्रतिचार हैं- उसे दूषित करने वाले हैं ।
For Private & Personal Use Only
www.jainelibrary.org