________________
TIMMITTINATIमानलमाVIPRIYAणानापानापन्न
गावालान्गालामामामागमापापांचा
Aanaa
तं देशमादेशहठी विधिज्ञो
विलोड्य मन्था इव दध्यमत्रम् । जग्राह सर्वस्वमसौ यशस्वी
निवेशनीयो धुरि दोधनेषु ॥८५॥ पताकिनी शैलपतेरुपत्यका
मावासयामास धरासु वासवः । दवाग्निदग्धागुरुधूपधूमजै
गन्धैरभिव्याप्तसमीपभूमिकाम् ॥८६॥ ततोऽयमस्माच्चमराणि चारू
ण्यादाय चिह्नं चतुरंगलक्ष्म्याः । संजातसिद्धिः प्रयियासति स्म
श्रीमाननुश्रीकरि राजसिंहः ॥८७॥ समुद्रवेलाभिरिवोद्धताभि
श्चमूभिराक्रान्तदिगन्तदेशः। चचाल भूपालवरोऽथ कुर्वन्
शेषोरगासोढभरां धरित्रीम् ॥८८॥ मया पुरेऽस्मिन्वसता समस्तं ___ भूमण्डलं दोर्युगसादकारि । इति स्वभाषामयशब्ददत्त
फतेपुराख्यं नगरं विवेश ॥८९॥ अनेन सेनोत्थरजोनिवेशितं
भूमि(मी)भुजां छत्रवियुक्तमौलिंषु । विनीय नीचैःपदमीश्वरेण य
गुरूकृतः को न समेति गौरवम् ॥१०॥ १. मवास० हं ॥ २. लक्ष्मा मु॥ ३. वियुक्तमौलि हं.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org