________________
अस्मिन् प्रविष्टे पुरमुत्पताकिकं
दिक्कुक्षिपूरी जयतूरनिस्वनः। अस्फोटयद्वयोम ततोऽनुवेधसा
क्षिप्ता इव स्फूर्तिगुणा उडुच्छलात् ॥९१॥ संपूर्णरूपा नरराजपुत्रीः
पूर्णां भुवं चाथ नृपोपनीताः। पाणौ चकार स्त्रियमगहीनां
कः स्वीकरोति स्वयमङ्गपूर्णः ॥९२॥ सिंहासनासीनमिमं ननाम
सचामरं मौलिधृतातपत्रम्। प्रसाददानोन्मुखलोचनाभ्यां
विलोकमानं क्षितिपालवर्गः ॥९३॥ खानखानादयः खाना ऊर्ध्वदीक्षाव्रतं ललुः। एतस्य पुरतो राज्ञः शिष्या इव गुरोः पुरः ॥९४॥ दूरादुपागतमहीभृदुपायनानि
दृष्ट्वैव पावनदृशाऽकबरो नरेन्दुः। भूसंजयैव विततार समीपगेभ्यो
मन्दारपादप इवार्थिषु दानशौण्डः ॥९५॥ नयवतां धुरि संस्थितिमादधे
नृपतिरेष तमुग्रकरे त्यजन् । ऋणवती क्षितिमाह यदग्रहे । परनृपः परवित्तकृतस्पृहः ॥९६॥
PATERMER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org