________________
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
निमित्तम्, प्रत्यक्षपूर्वकत्वात् तस्येति । तथा उपमानमप्यनिमित्तमेव । यतस्तस्य गो गवयसादृश्यग्रहणे सति गौरेव प्रमेयः । तस्योपमानोपमेय प्रत्यक्षं च सति प्रवृत्तेः । तथार्थापत्तिरपि सा च द्विधा - श्रवणाद् दर्शनाच्चेति । श्रवणाद् यथा - पीनो देवदत्तों दिवा न भुंक्ते, अर्थादापन्नम् - रात्रौ भुंक्ते । अस्याश्च रात्रिभोजनवाक्यमेव प्रमेयमिति । दर्शनाद् यथा— भस्मादिविकारमुपलभ्य दाहशक्ति वह्नेः प्रमीयते । तथा अपराण्यपि उदाहरणानि शास्त्रादुत्प्रेक्ष्य वक्तव्यानि । अभावोऽप्यनिमित्तम्, अविद्यमान (अभाव)-विषयत्वात् । तस्माच्चोदनालक्षण एव धर्मो नान्यलक्षण इति स्थितम्। तथा वर्णानामेव वाचकत्वम् — अर्थप्रतिपत्तिहेतुत्वम् । तच्च बाह्य एवार्थे, नान्यत्र। यत उक्तम्— गकारौकारविसर्जनीया - इति भगवानुपवर्ष:' वायोश्च वक्त्रा प्रेरितस्य श्रोतुः श्रोत्र - देशं प्राप्तस्य ये संयोगविभागास्तेऽभिव्यञ्जका गकारादिवर्णानाम्। ते चाभिव्यक्ता एव वाचकाः, नान्यथा अर्थानां बाधकानां नित्यः शब्दार्थयोः सम्बन्धः । न च मीमांसकानां वर्णव्यतिरिक्ते पद-वाक्ये स्तः, तेष्वेव पदवाक्योपचारात्।
१६
इति मीमांसक - मत-दिग्दर्शनमिति बृहस्पति - (लोकायतिक) मतम्
अथ बृहस्पतिमतानुसारि प्रमाणप्रमेय स्वरूपनिरूपणाय समासेनेदमाह–
तत्र च प्रमेयनिरूपणायाह — पृथिव्यापस्तेजो वायुरिति तत्त्वानि । आह तत्त्वान्तरमप्यस्ति शरीरेन्द्रियाणि । न तत्त्वान्तरम्, यतः 'तत्समुदाये शरीरेन्द्रियविषय - संज्ञा' । शरीरं भूतसमुदायः तथेन्द्रियाणी विषयाश्चेति । तस्माच्चत्वार्येव भूतानि । ज्ञानं तत्त्वान्तरमीति चेत्, तदपि न, यत् आह - ' तेभ्यश्चैतन्यम्' तद्धर्मणा एवेत्यर्थः, मद्याङ्गानां मदशक्तिवत् । ननु चात्मा तत्त्वान्तरम्, तदप्यसम्बद्धमेव, यत आह सूत्रकारः - जल बुबुवज्जीवाः । तथा चैतन्यविशिष्टः काय: पुरुषः इति । ननु च पुरुषार्थः कश्चित् तत्त्वान्तरं भविष्यति । तन्निवृत्त्यर्थमाह- 'प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थः । स च 'काम एव' नान्यो मोक्षादिः । ननु चान्य एव नान्यो मोक्षादिः । ननु चान्य एव कश्चिद् बुद्ध्याधारः पुरुषो भविष्यति । द्दष्टहान्यदृष्टकल्पना - सम्भवान्नान्यः । तस्मात् स्थितमेतत्
' चत्वार्येव तत्त्वानि । '
१. शावर भाष्य १.१ । ५ पृ. १४;
Jain Education International
२. वृहस्पतिसूत्र
For Private & Personal Use Only
www.jainelibrary.org