________________
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
आप्तोपदेश: शब्दः। आह पुरुषो योः यत्राभियुक्तः कर्मणि चादुष्टः स तत्राप्तः। तेन उपदेश: क्रियते तद्यथा-स्वर्गेऽप्सरस: उत्तरकुरषु भोगभूमयः' स आप्तोपदेशः। एवमेतानि प्रमाणानि शेषप्रमाणानामत्रेवान्तर्भावात्।
इति सांख्यमतं समाप्तम्
बौद्धदर्शनम् अथ बौद्धमतप्रदर्शनायेदमाह
तत्र हि पदार्थाः द्वादशायतनानि। तद्यथा-चक्षुरायतनं एवं रसनायतनादीनि यावत् मन-आयतनं तथा रसायतनं, रूपायतनं, गंधायतनं, स्पर्शायतनं, शब्दायतनं। धर्मायतनं अधर्मायतनं। च सुखदु:खादय:।
आहकिं पुनस्तेषां परिच्छेदहेतुः? प्रमाणमिति। तच्च द्विविधंप्रत्यक्षमनुमानं च। तत्र 'प्रत्यक्षं कल्पनापोढमभ्रान्तम्'। कल्पना नामजात्यादियोजना। तत्र नामकल्पना डित्थ इति। जातिकल्पना गौरिति। गुणकल्पना शुक्ल इति। क्रिया-कल्पना पाचकः इति। द्रव्यकल्पना दण्डी छत्री विषाणीति। अनया कल्पनया रहितं प्रत्यक्षं प्रमाणमिति।
अथानुमानम्-त्रिरूपाल्लिङ्गलिङ्गिनि-ज्ञानमनमानम्। रूपत्रयं च पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षे चासत्त्वमेवेति। एतस्मात् त्रिविधाल्लिङ्गात् निश्चितात् लिङ्गिनि साध्यधर्मविशिष्टे धर्मिणि ज्ञानमनुमानम्। इत्येवं द्वे एव प्रमाणे, शेष प्रमाणानामत्रैवान्तर्भावात्।
इति बौद्धमतं समाप्तम्
मीमांसकदर्शनम् अथ मीमांसकसिद्धान्ते वेदपाठानन्तरं धर्मजिज्ञासा कर्त्तव्या।
यतश्चैवं ततस्तस्य निमित्तपरीक्षा। निमित्तं च चोदना। यतश्चोक्तम्चोदनालक्षणोऽर्थो धर्मः। चोदना च क्रियायाः प्रवर्तकं वचनमाहुः । यथा—अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि। तेन धर्म-उपलक्ष्यते, न पुनः प्रत्यक्षादिना।
आह–कथं प्रत्यक्षाद्यनिमित्तं? यतस्तदेवंविधम्-सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलम्भकत्वात्, तथा अनुमानमप्य
१. न्यायबिन्दु १।३-६;
२. जैमिनि सूत्र१।१।२;
३. जैमिनि सूत्र-१।१।४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org