________________
१४
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
सांख्यदर्शनम् अथ सांख्यमतप्रदर्शनायेदमारभ्यते
'तत्र हि प्रकृति: पुरुष: तत्संयोगश्च। प्रकृतिः सत्त्वरजस्तमसां साम्यावस्थानं प्रकृतिः। तस्या एव वैषम्यावस्था परिणामः। यथा-तस्याः प्रकृतेः महानुत्पद्यते, महतोऽहंकारः, ततश्चाहंकारादेकादशेन्द्रियाणि-पंच बुद्धींद्रियाणि, पंचकर्मेन्द्रियाणि च, अपरं मनः, तत एवाहंकारात् तमोबहुलात् पञ्च तन्मात्राणि, तद्यथाशब्द-तन्मात्रम्, स्पर्शतन्मात्रम्, रूपतन्मात्रम्, रसतन्मात्रम्, गंधतन्मात्रमिति । एतेभ्यश्च यथाक्रमेण भूतानि आकाशवाय्वग्न्युदकभूमयः भूतसमुदायश्च शरीरवृक्षादयः।
सत्त्वादिलक्षणं वक्तव्यमिति चेत्; तदुच्यते-प्रसाद-लाघव-प्रसवाऽभिष्वङ्गत्वर्ष प्रीतयः कार्यं सत्त्वस्य, शोष-ताप-भेद-स्तम्भोद्वेगप्रद्वेषाः कार्य रजस:, आवरण-सादन-वीभत्स-दैन्य-गौरवाणि तमसः कार्यम्।
सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलं च रजः।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।। एवं तावत् प्रकृतिः स्थूल-सूक्ष्मरूपेण व्याख्याता।।
अथ पुरुषः किं रूप:? चैतन्यं पुरुषस्य स्वरूपम्। प्रकृति पुरुषयोश्चोपभोगार्थः सम्बन्धः संयोगः पङ्गवन्धयोरिव। उपभोगश्च शब्दाधुपलम्भो गुणपुरुषान्तरोपलम्भश्च। आह– किमेकः पुरुषोऽनेको वा? आत्मा अनेक इत्याह। का पुनरत्र युक्ति:?
__ जन्ममरणकरणानां नियमदर्शनाद् धर्मादिषु च प्रवृत्तिः नानात्वाच्चानेक: पुरुषः, स आत्मोच्यते इति। अथ प्रमाणं वक्तव्यम्
तदुच्यते प्रत्यक्षमनुमानमागमश्चेति। तत्र प्रत्यक्षम् ‘श्रोत्रादिवृत्ति: प्रत्यक्षम्।' श्रोत्र-त्वक्-चक्षु-र्जिह्वा-घ्राणानां मनसाधिष्ठितानां शब्दादिविषयग्रहणे वर्तमानानां वृत्तिः विषयाकारः परिणाम: प्रत्यक्षं प्रमाणमिति उच्यते।
अथ अनुमानं- ‘सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्। सम्बन्धादविनाभावलक्षणेन सम्बन्धेन लिंगात्, यथा धूमादग्निरत्रेति।
१. सांख्यकारिका-१३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org