________________
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
अभूतमभूतस्य यथा-अभूता श्यामता अभूतस्य घटाग्निसंयोगस्य लिंगम्। भूतं भूतस्य यथा-स्यन्दनकर्म सेतुभंगस्य। तथाऽपरमपि लिंगमुत्प्रेक्ष्यमनया दिशा, यथा-जलप्रसादोऽगस्त्युदयस्य, तथा चन्द्रोदय, समुद्रवृद्धेः कुमुदविकाशस्य चेत्यादि। तच्च ‘अस्येदम्' इत्यादिना सूचितम्, यतो लिंगोपलक्षणायेदं सूत्रम्, न नियमप्रतिपादनायेति।
__ आह—प्रत्यक्षलक्षणं किम्? इति चेत्, तदाह-आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् सुखदु:खे यन्निष्पद्यते तत्प्रत्यक्षम्, तदन्यत् । अस्य व्याख्या- आत्मा मनसा युज्यते, मन इन्द्रियेण इन्द्रियमर्थेनेति। ततश्चतुष्टयसन्निकर्षाद् घट-रूपादिज्ञानम्, वयसनि-कर्षाच्छब्दे, द्वय सन्निकर्षात् सुखादिषु। एवं प्रत्यक्षमपि निर्दिष्टम्।
'इति वैशेषिकमतसमाप्तम्।'
जैनदर्शनम् अथ जैनसिद्धान्तानुसारेण प्रमाण-प्रमेय-स्वरूपावधारणायेदमुपदिश्यते। आहयद्येवम्, ब्रूहि किं तत् प्रमाणं प्रमेयं च? इति। अथ प्रमेयम्
तत्र प्रमेयं जीवाऽजीवास्रवबंधसंवरनिर्जरामोक्षास्तत्त्वम्। तत्र सुखदुःखज्ञानादि-परिणामलक्षणो जीवः। विपरीतस्त्वजीवः। मिथ्यादर्शनाऽविरति-प्रमादकषाय-योगा-बन्ध-हेतवः। काय-वाङ्मन: कर्मयोगः। स आश्रवः। शुभ:पुण्यस्य विपरीत: पापस्य। आश्रवकार्यं बन्धः। आश्रवविपरीत: संवरः, संवरफलं निर्जरा। निर्जरा फलं मोक्ष-इत्येते सप्तपदार्थाः। अथ प्रमाणं
प्रत्यक्षं परोक्षं च। तत्र प्रत्यक्षं द्विविधं-मुख्यं सांव्यवहारिकं च। तत्र मुख्यमवधिमनःपर्ययकेवलभेदात् त्रिविधं। सांव्यवहारिकं तु मतिज्ञानमवग्रहेहावायधारणात्मकं तस्य लक्षणं साक्षात्कारित्वम्। परोक्ष-मतिस्मृति-संज्ञा-चिंताभिनिबोधलक्षणम्। श्रुतं-अक्षरश्रुतज्ञानमनक्षरश्रुतज्ञानं चेति। तस्य लक्षणमसाक्षात् कारित्वम्।
समाप्तं सकलं जैनसर्वमिदमिति
१. वै. सू.३।१।१३। २. तत्त्वार्थसूत्र-१/४;
३. तत्त्वार्थसूत्र ८११,६।१,६।२,६।३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org