________________
१०
१६. अथ निग्रहस्थानानि
निग्रहस्थानानि पराजयवस्तूनि । तद्यथा— 'प्रतिज्ञाहानिः प्रतिज्ञान्तरम् प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम् अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम् अपार्थकम्, अप्राप्तकालम्, न्यूनम् अधिकम्, पुनरुक्तम् अननुभाषणम्, अप्रतिज्ञानम्, अप्रतिभा, कथाविक्षेप:, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः हेत्वाभासाश्चेति निग्रहस्थानानि ।
१
नैयायिक मतं समाप्तम् अथ वैशेषिकदर्शनम्
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
अथ वैशेषिक- तन्त्रसमासप्रतिपादनायाह
द्रव्य-गुण-कर्म- सामान्य- विशेष - समवायानां तत्त्वज्ञानान्निःश्रेयसाधिगमः । तत्र तावत् नवद्रव्याणि
२
'पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति नवद्रव्याणि ।
तत्र पृथिवीत्वयोगात् पृथिवी । सा च द्विविधा – नित्या-अनित्या च। तत्र परमाणुलक्षणा नित्या। कार्यलक्षणा त्वनित्या । सा च चतुर्दश लक्षणोपेता तद्यथा- - रूप-रस-गंध-स्पर्श संख्या- परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाऽपरत्व-नैमित्तिक द्रवत्व-वेगैः ।
३
›
अप्त्वाभिसम्बन्धादापः । ताश्च रूप-रस-स्पर्श-संख्या-परिमाण -पृथक्त्वसंयोग-विभाग-परत्वा-ऽपरत्व- गुरुत्व-स्वाभाविकद्रवत्व- स्नेह - वेगवत्यः । तासु च रूपं शुक्लमेव, रसो मधुर एव, स्पर्श: शीत एव ।
तेजस्त्वाभिसम्बन्धात् तेजः" तच्च रूप-स्पर्श-संख्या-परिमाण - -पृथक्त्वसंयोग-विभाग-परत्वा-ऽपरत्व- नैमित्तिक- द्रवत्व-वेगै: एकादशभिः गुणैः गुणवत् । तत्र रूपं शुक्लं भास्वरं च, स्पर्श उष्ण एवेति । नैमित्तिकं द्रवत्वं च।
१. न्यायसूत्र ५।२1१:
३. गुरुत्वः
५. वही पृ. १५:
Jain Education International
वायुत्वाभिसम्बन्धाद् वायुः' इति । स च अनुष्णाशीतस्पर्श-संख्या-परिमाणपृथक्त्व-संयोग-विभाग-परत्वा ऽपरत्व- वेगैर्नवभिः गुणैर्गुणवान् धृति कंपादिलिङ्गः शब्दलिङ्गो गन्धादिवियुक्तोऽनुष्णशीतस्पर्शर्लिङ्गश्चेति ।
२. वैशेषिक सूत्र १|११५ ।
४. प्रशस्तपादभाष्य पृ. १४ । ६. वही पृ. १६ ।
For Private & Personal Use Only
www.jainelibrary.org