________________
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
'आकाशमिति' पारिभाषिकीयमिति संज्ञा, एकत्वात् तस्य संख्या परिमाणपृथक्त्व-संयोग-विभागा- शब्दैः षड्भिः गुणैः गुणवत् शब्दलिङ्गंचेति ।
१,
‘काल: परापरव्यतिकर- यौगपद्यायौगपद्य- चिर- क्षिप्र - प्रत्ययलिङ्गम्, ”स संख्यापरिमाण-पृथक्त्व-संयोग-विभागैः पञ्चभिः गुणैः गुणवान् ।
२
'इत इदम्' पूर्वमित्यादिप्रत्ययो यतस्तद् दिश्यं लिङ्गम् ।
तद्यथा इदमस्मात् पूर्वेण इदमुत्तरेणेति ।
संख्या-परिमाण-पृथक्त्व-संयोग-विभागैः पञ्चभिः - गुणै: - गुणवती एवेति संज्ञा च पारिभाषिकी चेति ।
‘आत्मत्वाभिसम्बन्धादात्मा'' - स च चतुर्दशभिः गुणैः गुणवान्। बुद्धि-सुखदुःखेच्छा-द्वेष-प्रयत्नलिंग धर्माऽधर्म-संस्कार-सङ्ख्या- परिमाण-पृथक्त्व-संयोगविभाग: चतुर्दशगुणा: ।
मनस्त्वाभिसम्बन्धाद् मनः । तच्च क्रमज्ञानोत्पत्तिलिङ्गं सङ्ख्या परिमाणपृथक्त्व-संयोग-विभाग- परत्वाऽपरत्व- -वेगैरष्टभिर्गुणैर्गुणवत्। इति द्रव्यपदार्थः ।
अथ गुणाः
रूप-रस-गंध-स्पर्शा विशेषगुणाः, संख्यापरिमाणानि पृथक्त्वं संयोग - विभागौ परत्वाऽपरत्वे इत्येते सामान्यगुणाः,
बुद्धि-सुख-दुःखेच्छा-द्वेष - प्रयत्न धर्मा धर्म - संस्कारा आत्मगुणाः, गुरुत्वं पृथिव्युदकयोः द्रवत्वं पृथिव्युदकाग्निषु, स्नेहोऽम्भस्येव, वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव, आकाशगुणः शब्द इति । गुणत्वयोगाच्च गुणा इति । तथा चापान्तरालसामान्यानि रूपत्वयोगाद् रूपम्, रसत्वादियोगाद् रसादयः । इति गुणपदार्थः ।
अथ कर्मपदार्थ:
११
-
'उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्मणि । कर्मत्व योगात् कर्म । गमन - ग्रहणाच्च भ्रमण - स्यन्दन- नमनोन्नमनाद्यवरोधः । इति कर्मपदार्थः ।
१. प्रशस्तपादभाष्य पृ. २६;
३. प्रशस्तपादभाष्य- पृ.३०;
Jain Education International
२. वैशेषिक सूत्र २।२।१०।
४. वै. सू. १।१।७
For Private & Personal Use Only
www.jainelibrary.org