________________
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
(२) अथानुमानम् – ‘तत्पूर्वकं त्रिविधमनुमानम् — पूर्ववत्-शेषवत्सामान्यतो दृष्टं च' इति। तत्पूर्वकमिति प्रत्यक्षपूर्वकम् । त्रिविधमिति लिङ्गविभागः । पूर्ववदिति कारणात् कार्यानुमानम्, यथा मेघोन्नतिदर्शनाद् भविष्यति वृष्टिरिति । शेषवदिति कार्यात् कारणानुमानम् । यथा विशिष्ट - नदीपूरदर्शनात् 'उपरि वृष्टो देवः ' इति गम्यते । सामान्यतो दृष्टं नाम यथा देवदत्तादौ गतिपूर्विकां देशांतरप्राप्तिमुपलभ्य आदित्येऽपि समधिगम्यते अनुमानम् ।
८
(३) अथोपमानम्— ‘प्रसिद्धेन साधर्म्यात् साध्यसाधनमुपमानम्।” प्रसिद्धो गौ:, तेन सह साधर्म्यं सामान्यं ककुद-खुर विषाणादिमत्त्वम्, तस्मात् साधर्म्यात् साध्यस्य गवयोऽयमिति संज्ञासंज्ञि संबंध: प्रमायाः साधनमुपमानम्, यथा गौः तथा गवय' इति । किं पुनरत्रोपमानेन क्रियते ? संज्ञा-संज्ञिसम्बन्धप्रतिपत्तिरुपमानार्थः।
-
(४) अथ कः शब्दः ? 'आप्तोपदेशः शब्दः । आप्तः खलु साक्षात् कृतधर्मा, तेन य उपदेशः क्रियते स आप्तोपदेशः । सर्वागमः शब्दाख्यं प्रमाणमित्युच्यते । २. अथ प्रमेयम्
किं पुनरनेन प्रमाणेनार्थजातं मुमुक्षुणा प्रमेयम् ? तदुच्यते शरीरेन्द्रियार्थ - बुद्धि- -मन::- प्रवृत्ति - दोष-प्रेत्यभाव-फल- दुःखापवर्गास्तु प्रमेयम्।"
३. अथ संशयः
किंचिदित्यनवधारणात्मकः प्रत्ययः संशयः । तद्यथा मन्दायमानप्रकाशे
स्थाणु: पुरुषोवेति ।
४. अथ प्रयोजनम् -
येन प्रयुक्तः प्रवर्तते तत् प्रयोजनम् ।
५. अथ दृष्टांत:
संप्रतिपत्तिविषयापन्नोऽर्थो दृष्टांतः ।
१. न्यायसूत्र १ । १ ।५: ३. वही १११।७:
काशादिरिति ।
६. अथ सिद्धान्तः
स च चतुर्विधः तद्यथा - ( १ ) सर्वतन्त्रसिद्धान्तः (२) प्रतितन्त्रसिद्धान्तः (३) अधिकरणसिद्धान्तः (४) अभ्युपगमसिद्धांतश्चेति ।
Jain Education International
'आत्म
४
यथा - अनित्याद्यर्थ विवरणे घटा
२. न्यायसूत्र १ । १ । ६ । ४.
न्यायसूत्र - १ । १ ।९ ।
For Private & Personal Use Only
www.jainelibrary.org