________________
अनन्तवीर्याचार्यविरचितः
षड्दर्शनेषु प्रमाण- प्रमेय- समुच्चयः
मंगलाचरणम्
सर्वभावप्रणेतारं प्रणिपत्य जिनेश्वरम् ।
वक्ष्ये सर्ववि (नि) गमेषु यदिष्टं तत्त्वलक्षणम् ।।
ॐ नमो अर्हभ्याम् । षड्दर्शनेषु प्रमाणप्रमेयसमुच्चय प्रदर्शनायेदमुप
दिश्यते
नैयायिकदर्शनम्
तावत्
तत्र नैयायिकदर्शने 'प्रमाण- प्रमेय-संशय-प्रयोजन- दृष्टांतसिद्धान्ताऽवयव- तर्क - निर्णय-वाद- जल्प- वितण्डा - हेत्वाभासच्छल-जातिनिग्रहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः । "
१
अथ प्रमाणम् -
अस्य व्याख्या- प्रमीयतेऽनेनेति प्रमाणम् । तस्य च सामान्य लक्षणम्अर्थोपलब्धिहेतुः प्रमाणम् । उपलब्धिश्च हानादिबुद्धिः । तच्चतुर्धा, तद्यथा -‘प्रत्यक्षाऽनुमानोपमानशब्दाः प्रमाणानि।
२
३
(१) तत्र प्रत्यक्षम् — 'इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् । अस्य गमनिका — इन्द्रियाणि प्राणादीनि, अर्था घटादयो गन्धादयश्च, तेषां सन्निकर्षः सम्बन्ध:, तस्मात् सन्निकर्षादुत्पन्नम्, नाऽभिव्यक्तम्, ततश्च सांख्यमतव्यवच्छेदः । ज्ञानग्रहणात् सुखादिव्यवच्छेदः । तच्च शब्देन व्यपदिश्यमानं शाब्दं प्रसज्यते, तेनोच्यते अव्यपदेश्यमिति । तथा तदेव ज्ञानं व्यभिचार्यपि संभवति, तेनेह 'अव्यभिचारि' इति । व्यवसायात्मकम् निश्चयस्वभावम्, ततश्च संशय-ज्ञानव्यवच्छेदः । ' प्रत्यक्षम्' इति लक्ष्यनिर्देशः ।
१. न्यायसूत्र १११ | १;
२ . वही १ । १ । ३;
Jain Education International
For Private & Personal Use Only
३. न्यायसूत्र - १.१.४ ।
www.jainelibrary.org