________________
क्रियासंग्रहः
नरोत्तमाः। अनेन चाहं कुशलेन कर्मणा भवेयं बुद्धो न चिरेण लोके । देशेय धर्मं जगतो हिताय मोचेय सत्त्वान् बहुदुःखपीडितान् इत्यनुत्तरायां सम्यक्सम्बोधौ परिणामयेत्। इति बोधिचित्तोत्पादः ।
१२
उत्पादयामि परमं बोधिचित्तमनुत्तरम् ।
यथा त्रैयविका नाथाः सम्बोधौ कृतनिश्चयाः ।। त्रिविधां शीलशिक्षाञ्च कुशलधर्मसङ्ग्रहम् । सत्त्वार्थक्रियाशीलञ्च प्रतिगृह्णाम्यहं दृढम् ।। बुद्धं धर्मश्च संघञ्च त्रिरत्नाग्रमनुत्तरम् । अद्याग्रेण गृहीष्यामि संवरं बुद्धयोगजम् ।। वज्रं घण्टाञ्च मुद्राञ्च प्रतिगृह्णामि तत्त्वतः । आचार्यश्च गृहीष्यामि महावज्रकुलोच्चये ।। चतुर्दानं प्रदास्यामि षट्कृत्वा तु दिने दिने । महारत्नकुले योगे समये च मनोरमे ।। सद्धर्मं प्रतिगृह्णामि बाह्यङ्गृह्यं त्रियानिकम् । महापद्मकुले शुद्धे महाबोधिसमुद्भवे ।। संवरं सर्वसंयुक्तं प्रतिगृह्णामि तत्त्वतः । पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये ।। उत्पादयामि परमं बोधिचित्तमनुत्तरम् ! गृहीतं सम्वरं कृत्स्नं सर्वसत्त्वार्थकारणात् ।। अतीर्णान् तारयिष्यामि अमुक्तान् मोचयाम्यहम् । अनाश्वस्तान् आश्वास्यामि सत्त्वान् स्थापयिष्यामि निवृतौ ।।
।। इति संवरग्रहणम् । इत्यनादिसंसिद्धियोगः । ।
तदनन्तरे प्रतिबिम्बादियोगतो मुद्राबन्धपूर्वकं सर्वमधितिष्ठेत् । कमलावर्त्तपूर्वकं कृत्वा । ओं अन्योन्यानुगताः सर्वधर्माः सम्पुटाञ्जलिम् । ओं परस्परानुप्रविष्टाः सर्वधर्माः वज्राञ्जलिम् । ओं अत्यन्तानुप्रविष्टाः सर्वधर्माः वज्रबन्ध वं। ओं वज्रबन्ध त्रट् । त्रिधा वज्रबन्धं हृदि स्फोटयेत् । वज्रबन्धमोक्षः । वज्रावेशसमयसमुद्राम् बध्वा । हृदये अकारेणाद्यवज्रम् पश्येत् । ओं तिष्ठ वज्र दृढो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org