________________
क्रियासंग्रहः
१३
मे भव शाश्वतो मे भव हृदयं मे अधितिष्ठ सर्वसिद्धिञ्च मे प्रयच्छ हूं ह ह ह ह होः। ओं वज्रावेश अः। ओं परस्परानुगताः सर्वधर्मा: ओं वज्रमुष्टि वं। पृथक् पृथक् हृदये वज्रमुष्टिं धारयेत्। तदनु
वज्रबन्धं बध्वा वज्रमुद्राद्विकान्तरात् ।
समुत्थितः क्षिपेत् क्षणाद् ऊर्ध्वापतितो क्षेपणं परम् ।।
ओं सर्वपापाकर्षणविशोधनवज्रसमय हूं फट् ।।पापाकर्षणं।। ओं वज्रपाणि विस्फोटय सर्वापायबन्धनानि प्रमोक्षय सर्वापायगतिभ्यः सर्वसत्त्वान् सर्वतथागतवज्रसमय हूं वट। इत्युदीरयन् पापं स्फोटयेत् त्रिधा।
वज्रबन्धं दृढीकृत्य मध्यमा मुखसन्धिता । चतुरन्त्यमुखासक्ता पापं स्फोटयति क्षणात् ।। वैरोचनसमयमुद्रां बध्वा मन्त्रं त्रिरुच्चारयेत् ।
ओं वज्र मुः। पापविसर्जनम् ।। एवं सर्वमुद्राक्षेपकृतो भवति। अनेन च त्रिकल्पासंख्येयं निर्यातं बोधिसत्त्वसदृशो भवति योगी।
तत: स्वहृदयगतवज्रमध्ये वज्रसत्त्वेति। मनसोदीरयन् सर्वधर्मनैरात्म्यं भावयेत्। अनेन च षोडशस्वरसहितेन चन्द्रमण्डलं। पुन: ककारादिव्यञ्जनेन द्वितीयं चन्द्रमण्डलं। तस्योपरि हृदयसहितेन पञ्चसूचिकं शुक्लवज्रं सरश्मिकं चिद्रं पश्येत्। अन्येषान्तु वज्रोद्भवस्वस्वमुद्रामन्त्रचिह्नमध्ये न्यस्य मुद्राहङ्कारं भावयेत्। वज्रसत्त्वमहामुद्रां बध्वैवं वदेत्।
वज्रोऽहं। वज्रोऽहं। रत्नोऽहं। पद्मोऽहं। विश्ववज्रोऽहं। वज्रोऽहं। अंकुशोऽहं। शरोऽहं। तुष्टिरहं। रत्नोऽहं। सूर्योऽहं। केतुरहं। समतिरहं। पद्मोऽहं। खड्गोऽहं । चक्रोऽहं। जिह्वोऽहं। कहिं। वहिं। दंष्ट्रोऽहं। मुष्टिरहं। वज्रद्वयमहं। रत्नमालाहं। वीणाहं। नृत्यकरपल्लवाहं। धूपोऽहं। पुष्पोऽहं। दीपोऽहं। गन्धोऽहं। अङ्कशोऽहं। पाशोऽहं। घण्टोऽहं। स्वस्वहृदयञ्जपन् सर्वतथागतकायवाचित्तवज्रधातुषु प्रवेश्य स्वस्वमुद्राञ्चिन्तयेत्। तत्रेयं मुद्रा। वज्रधातुरहं। वज्रसत्त्वोऽहं। रत्नवज्रोऽहं। पद्मवज्रोऽहं। विश्ववज्रोऽहं। वज्रसत्त्वोऽहं। वज्रराजोऽहं। वज्ररागोऽहं। वज्रसाधुरहं। वज्रगर्भोऽहं। वज्रप्रभोऽहं। वज्रयष्टिरहं। वज्रप्रीतिरहं। वज्रनेत्रोऽहं। वज्रबुद्धिरहं। वज्रमण्डोऽहं। वज्रवाचोऽहं। वज्रकर्माहं। वज्रवीर्योऽहं। वज्रचण्डोऽहं। वज्रमुष्टिरहं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org