________________
क्रियासंग्रहः
सर्वसत्त्वनिकायानां सर्वपुण्यमनुमोदयामि। दशसु दिक्षु सर्वबुद्धा भगवन्तोऽप्रवर्तितधर्मचक्रान् अध्येष्ये धर्मचक्रप्रवर्त्तनाय। दशसु दिक्षु सर्वबुद्धानां भगवत: परिनिर्वातुकामानां याचेऽपरिनिर्वाणाय। इति पापदेशनादि। ततो विंशतिपूजाङ्कुर्यान्मन्त्रमुद्रायुक्तेन। ततः पुष्पसमयमुद्रां बध्वैवं वदेत्। ओं सर्वतथागतपुष्पपूजामेघसमुद्रस्फरणसमये हूं। धूपसमयमुद्रां बध्वैवं वदेत्। ओं सर्वतथागतधूपपूजामेघसमुद्रस्फरणसमये हूं। दीपसमयमुद्रां बध्वैवं वदेत्। ओं सर्वतथागतालोकपूजामेघसमुद्रस्फरणसमये हूं। एवङ्गन्धसमयमुद्रया। ओं सर्वतथागतगन्धपूजामेघसमुद्रस्फरणसमये हूं। प्रणामाञ्जलिरत्नालंकारं बध्वैवं वदेत्। ओं सर्वतथागतबोध्यङ्गरत्नालङ्कारपूजामेघसमुद्रस्फरणसमये हूं। हास्याभिनयं बध्वैवं वदेत्। ओं सर्वतथागतहास्यलास्यरतिक्रीडासौख्यानुत्तरपूजामेघसमुद्रस्फरणसमये हूं। वस्त्रप्रदानमुद्रां बध्वैवं वदेत्। ओं सर्वतथागतबोध्यङ्गवस्त्रालङ्कारपूजामेघसमुद्रस्फरणसमये हूं। वज्रसत्त्वकर्ममुद्रां बध्वैवं वदेत्। ओं सर्वतथागतवज्रपूजामेघसमुद्रास्फरणसमये हूं। लास्यकर्ममुद्रां बध्वैवं वदेत्। ओं सर्वतथागतमहावज्रोद्भवदानपारमितापूजामेघसमुद्रस्फरणसमये हूं। मालाकर्ममुद्रया वदेत्। ओं सर्वतथागतानुत्तरबोध्याहारकशीलपारिमतापूजामेघसमुद्रस्फरणसमये हूं। गीतकर्ममुद्रया। ओं सर्वतथागतानुत्तरधर्मावबोधक्षान्तिपारमितापूजामेघसमुद्रस्फरणसमये हूं। नृत्यकर्ममुद्रया। ओं सर्वतथागतसंसारापरित्यागानुत्तरवीर्यपारमितापूजामेघसमुद्रस्फरणसमये हूं। धूपकर्ममुद्रया। ओं सर्वतथागतानुत्तरसौख्यविहारध्यानपारमितापूजामेघसमुद्रस्फरणसमये हूं। पुष्पकर्ममुद्रया। ओं सर्वतथागतानुत्तरक्लेशच्छेदनिमहाप्रज्ञापारमितापूजामेघसमुद्रस्फरणसमये हूं। दीपकर्ममुद्रया। ओं सर्वतथागतमहाप्रणिधिपारिमतापूजामेघसमुद्रस्फरणसमये हूं। गन्धकर्ममुद्रया। ओं सर्वतथागतापायगन्धनाशनिवज्रगन्धोपायपारमितापूजामेघसमुद्रस्फरणसमये हूं। शिरसि प्रणामाञ्जलिं बध्वैवं वदेत्। ओं सर्वतथागतकायनिर्यातनपूजामेघसमुद्रस्फरणसमये हूं। मुखे वज्राञ्जलिम् ईषद्विकास्यैवं वदेत्। ओं सर्वतथागतवाग्निर्यातनपूजामेघसमुद्रस्फरणसमये हूं। हृदि सम्पुटाञ्जलिं बध्वैवं वदेत्। ओं सर्वतथागतचित्तनिर्यातनपूजा-मेघसमुद्रस्फरणसमये हूं। ओं सर्वतथागतगुह्यनिर्यातनपूजामेघसमुद्रस्फरणसमये हूं। आलिङ्गनाभिनयेन। एवं विंशतिप्रकारपूजाभिः सर्वतथागतान् सम्पूज्यात्मानं निर्यातयेत्। आत्मानं • सर्वबुद्धबोधिसत्त्वेभ्यो निर्यातयामि सर्वदा सर्वकालं प्रतिगृहणन्तु मां महाकारुणिकनाथा महासमयसिद्धिञ्च मे प्रयच्छन्तु। तच्च कुशलमूलं सर्वसत्त्वसाधारणं कर्त्तव्यम्। अनेन कुशलमूलेन सर्वसत्त्वाः सर्वलौकिकलोकोत्तरविपत्तिविगता भवन्तु सर्वलौकिकलोकोत्तरसम्पत्तिममन्विताश्च सहैव सुखेन सहैव सौमनस्येन बुद्धा भवन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org