________________
१३०
श्रमणविद्या-३
नन्दं भिक्षुसंघं नेतुं तेन महान् यत्नः कृतः। प्रात: एव भिक्षार्थं तद्गृहं गतोऽपि भिक्षामप्राप्यैव प्रत्यावर्तित इति विज्ञाय नन्दः स्वकीयां भार्यां परित्यज्य गन्तुमुत्सुकः। नन्दस्य तदानीन्तनगमनस्य वर्णनं महाकविना अश्वघोषेन कियता मनोहररुपेण व्यधायि तद्यथा
तं गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनराचकर्ष । सोऽनिश्चयान्नापि ययौ नतस्थौ तरस्तरङ्गष्विव राजहंसः ।।
कियद् गौरवमस्य देशस्य, यत्र भगवान बुद्धोआविर्वभूव। यो हि समग्रस्य जगत: निर्वाणाय कृतसंकल्पो वर्तते। महायानपरम्परायां तु तावद् बुद्धः स्थास्यति यावदस्य समग्रस्य प्राणिजातस्य निर्वाणं न भवति। तादृशस्य बुद्धस्य जन्मभूमौ तदीय दर्शनस्याध्यापनव्यवस्था पूर्णरुपेण अद्यावधि नासीदिति च खिद्यते मादृशानां मानसम्। किन्तु इदानीमत्रस्थैः पदाधिकारिभिः महेन्द्र संस्कृत विश्वविद्यालये बौद्धदर्शनस्य अध्ययनाध्यापनयोः व्यवस्था सत्र १९९२-९३ तः प्रारब्धम्। सौभाग्यं समग्रस्य बुद्धपरम्परावादि समूहस्य।
___ महेन्द्रसंस्कृतविश्वविद्यालये संस्कृत सम्मेलने गमनेन मया ज्ञायते यदत्र हस्तलिखितानां बौद्धग्रन्थानां महान् राशि अस्तीति। तेषां ग्रन्थानां सम्पादनं प्रकाशनञ्च यावत् कालपर्यन्तं न जायते तावत् सर्वेऽपि तदीय-ग्रन्थाध्येतारो वञ्चिता एव भवन्तीति। सम्प्रति महेन्द्रविश्वविद्यालयस्य बौद्धदर्शन विभागः तेषाममूल्यानां ग्रन्थरत्नानां प्रकाशनं विधास्यति। तेषां प्रकाशने सहयोगाय वयं भारतवासिनः विशेषत: सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य बौद्धदर्शन विभागः सर्वदा तत्परो वर्तते।
नेपालगमनेनेतद् विज्ञातं यत् बौद्धअध्येता श्रीमान् वी.एच. हड्रसन महोदयः १८३३त: १८४३ वर्ष पर्यन्तमिह स्थित्वा विपुलं बौद्धसाहित्यं संगृहीतवान्। तेन संग्रहीताभ्यः ग्रन्थपोटलिकाभ्यः षड्अशीति (८६) पोटलिका वङ्गस्य एशियाटिकसोसाइटि इत्याख्य संस्थायै प्रदत्ताः। पञ्चाशिति (८५) पोटलिका: रायल एशियाटिक सोसायटी इत्याख्य लन्दनस्थ संस्थायै प्रदत्ताः। त्रिशत् (३०) पोटलिकाः भारतीयकार्यालयपुस्तकालयाय लन्दनस्थाय प्रदत्ताः। सप्त (७) पोटलिका: वेडलिन पुस्तकालयाय यो हि आक्सफोर्ड विश्वविद्यालय वर्तते तस्मै प्रदत्ताः। चतुः सप्तति एकशतोत्तर (१७४) पोटलिका: एशियाफिंग सोसाइटी इत्याख्यसंस्थायै प्रदत्ताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org