________________
नेपालराष्ट्र बौद्धदर्शनस्याध्यनाध्यापनयोर्व्यवस्था तद् विश्लेषणं च १३१
हन्त। एतावन्तो बौद्धग्रन्था अस्मात् देशात् गता इति विज्ञाय कस्य बौद्धधर्मावलम्बिनः बौद्धग्रन्थानां अध्येतुः मनसि दुःखं न भवेत ततः परमपि अद्यावधि ये ग्रन्थाः सन्ति अत्र तेषां प्रकाशनं विधीयते वा ? न खलु नेपालेन अपवादं विहाय कश्चनापि ग्रन्थः प्रकाशितः ।
इयं नेपालभूमिः, तत्रापि विशेषतः काष्ठमण्डवस्तु बौद्धग्रन्थानां संरक्षणभूमि वर्तते। यदा भारते मुस्लिमानाम् आक्रमणं वभूव तदानीं ये विद्वासं ततः पलायिता ते अत्रैव आगत्य ग्रन्थसंरक्षणं अकुर्वन् । दशमशताब्दौ यदा तिब्बतं प्रति भारतीया विद्धांसौ जग्मुः तदानीं नेपाल एव तेषां मार्ग आसीत । अत्रैव सहस्राधिकबौद्धग्रन्थानां तिब्बती भाषायां अनुवादो वभूव । यदा च नालन्दा विश्वविद्यालयः बख्तियारखिल्जीनामकेन मुस्लिम आततायिना प्रज्वालित: द्वादशशताब्दी तदानीं ये ग्रन्थां अवशिष्टाः तेऽपि अत्रैव आनीय तैः विद्वद्भिः संस्थापिताः । त एव च ग्रन्था अद्य विश्वस्मिन् प्रकाश्यन्ते पठ्यन्ते पाठ्यन्ते च ।
तादृशे महनीये देशे बुद्धधर्मदर्शनयो अध्ययनाध्यापनाय यो हि प्रयासो विधीयमानो वर्तते। या च जागर्ति इह बौद्ध विद्याध्ययनाय सम्प्रति दृश्यते तेन वयं नितरां प्रसीदामः । भगवतो बुद्धस्य आविर्भावः संसारस्य आध्यात्मिकपथे कियान् महत्त्वपूर्ण उपलब्धिरासीत् तस्यानुमानस्तु विश्वस्य असंख्यकान् तदनुयायिनों विलोक्य सहजतया कर्तुं शक्यते ।
बौद्ध विद्याया अध्ययनाय नेपालजनमानसे या जिज्ञासा समुत्पन्ना विद्यते, तेन वयं भारतवासिनो नितान्तमुत्साहिताः स्म अस्मिन् विषये सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य बौद्ध विद्या अध्ययन प्रमुखरुपेण अहं सर्वविधसहायतायैः संकल्पं करोमि ।
नेपाले परम्परागत बौद्ध धर्मानुयायिनः सन्ति । किन्तु महनीय शास्त्रीयपरम्परायाः ज्ञानाभावेन शनैः-शनै ह्रासतां गच्छतीति बौद्धधर्मस्य, बौद्धकर्मकाण्डस्य, बौद्धदर्शनस्य च ज्ञानं तेषां कृते नितान्तमावश्यकं प्रतिभाति । पाठ्यक्रमे बौद्धागम, बौद्धतन्त्र, बौद्धन्याय, बौद्धयोगनाञ्च समावेशः कर्तव्यः ।
बौद्धविद्यायाः मूलग्रन्थाः पालिसंस्कृतभाषयोः विद्यन्ते । यथा पाश्चात्यदेशेषु तथा च भारतस्याधुनिकविश्वविद्यालयेषु बौद्धविद्यायाः यादृशः पाठ्यक्रमो वर्तते तादृक् पाठ्यक्रम इह नेपाले महेन्द्र संस्कृत विश्वविद्यालये नास्ति। भारतस्य आधुनिक विश्वविद्यालयेषु विश्लेषणप्रधान पद्धतिर्वर्तते यो हि बौद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org