________________
नेपालराष्ट्रे बौद्धदर्शनस्याध्यनाध्यापनयोर्व्यवस्था तद् विश्लेषणं च १२९ सन्तः अशोक-मिलिन्दशालिवाहन-कनिष्क-हर्षवर्धन सदृशाः महान्त: प्रशासका: स्वीयवैभवैः तं धर्मं वर्धितवन्तः तथा च समस्त मोहमददोषजातान् परित्यज्य लोकहिततत्पराः सन्तः पवित्रं जीवनमतिवाहितवन्तः। नेपालात् प्रादुर्भूतस्य तस्य भगवतो बुद्धस्य अयं सन्देश: यूनान-तूरान-चीन-जापानादिशासकानामपि शिरोधार्योऽभवत्। अस्मिन्नाधुनिकेऽपि युगे बुद्धोपदिष्टमार्गस्यानुयायिनां संख्या हिन्दूनामपेक्षया विपुला वर्तते। ते च बौद्धाः इमं नेपालं पुण्यभूमिं बुद्धभूमि तीर्थभूमिं च मन्यन्ते। स च सुगत: एकोनविंशतिवार्षिके वयसि स्वीयं राजभवनं परित्यज्य तपसि प्रवृत्त: वनं जगाम। कालान्तरे भारतस्य पुण्यभूमौ गया क्षेत्रे तपस्तेपे षड्वर्षाणि। तदानीं स भगवान् सम्बोधि प्राप्नोत्। अष्टाविंशति दिनानि स समाधिसुखे निमग्नोऽभवत्। तच्च महत्सुखं बौद्धवाङ्गमये बहुत्र वर्णितं वर्तते। तच्च विज्ञानं यद्धितेनालाभि तदन्येभ्यो दातुं समुद्यतोपि सहसा संशयपदवीमाप्नोत्। कृतः मया काठिन्येन यो हि धर्म: लब्धः व्यर्थं तस्य प्रकाशनम्। रागद्वेषादिभिः संपृक्तजनतायाः कृते न सुबोधोऽसौधर्मः। प्रतिस्रोतगामी सूक्ष्मगभीरः दुर्बोध: धर्मः रागादिदोषैः रञ्जिताः तमसा आवृत्ता जनाः द्रष्टुं न शक्नुवन्ति इति। एतस्य मज्झिमनिकाये इत्थं वर्णितं वर्तते-“अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो। आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता। आलयरामाय खो पन पजाय आलयरताय आलयसम्मुदितायं दुद्दसं इदं ठानं यदिदं-इदप्पच्चयतापटिच्च-समुप्पादो। इदं पि खो ठानं दुद्दसंयदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तहक्खयो विरागो निरोधो निब्बानस्स। अहं चेव खो पन धम्म देसेय्यं, परे च मे न आजानेय्युं, सो ममस्य किलमथो, सा ममस्स विहेसा ति। तथा चेयं गाथा
"किच्छेन मे अधिगतं, हलं दानि पकासितुं । रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो ।। पटिसोतगामि निपुणं, गम्भीरं दुद्दसं अणुं ।
रागरत्ता न दक्खन्ति, तमो खन्धेन आवुटा ति ।। एवं सत्यपि तदानीं बुद्धस्यानौत्सुक्यं विलोक्यं ब्रह्मा तत्र सहसा प्रकटो वभूव। स च निवेदयामास यल्लोकस्य समुद्धाराय भवता अवश्यमेव हि धर्म उपदेष्टव्यः। तत: परमेव भगवान् बुद्धः वाराणसीमागत्य धर्मचक्रप्रर्वतनमकरोति इति परम्परावादिनां मतम्। ततस्तु बुद्ध: लुम्बिनी आजगाम। तत्र च स्वीयं भ्रातरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org