________________
२१२
अवचूरिजुदो दव्वसंगहो
1
अत्र गत्यादिषु जीवा अन्विष्यन्ते । गइ देवगति मनुष्यनारक-तिर्यक्-सिद्धगतिश्चेति इंदिया एकेन्द्रिय द्वीन्द्रिय त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियाः । अतीन्द्रियाः सिद्धा इत्यर्थः । काए- पृथ्वी कायकाः, अपकायकाः, तेजकायकाः, वातकायकाः, वनस्पतिकायकाः, त्रसकायकाः, अकायकश्चेति' । नोए - सत्यमनयोगी । मृबामनयोगी । सत्यमृषामनयोगी । नसत्यमृषामनयोगी । सत्यवचोयोगी । असत्यवचोयोगी । सत्यमृषावचोयोगी, नसत्यमृषावचोयोगी । औदारिककाययोगी । औदारिकमिश्रकाययोगी । परमोदारिककाययोगी च । तत्रौदारिको मनुतिरश्चाम् । मिश्री अपर्याप्तानाम् । परमोदारिकः केवलिनाम् । वैक्रियककाययोगी । वैक्रियकमिश्र काययोगी | तत्र वैक्रियको देवनारकाणां । मिश्रः अपर्याप्तानां । आहारककाययोगी आहारकमिश्र - काययोगी | तत्राहारककाययोगपरमर्द्धिमाहात्म्यषष्ठगुणस्थाने महर्षीणां भवति । यदा पदपदार्थसंदेहः समुत्पद्यते तदा उत्तमाङ्गे पुत्तलको निर्गच्छति । यत्रस्थं तीर्थंकरदेवमन्तर्मुहुर्त्तमध्ये पश्यति । तत्प्रस्तावे यतेनिश्चयः समुत्पद्यते । पुनस्तत्रैव प्रवेशं करोति । मिश्रो पर्याप्तपद्मलेश्या । स्वपरपक्षरहितो निदानशोकभय रागद्वेषपरिवर्जितः शुक्ललेश्या इति । भविय। सिद्धयोग्याः जीवाः भव्याः, तद्विपरीता अभव्याः । भव्यत्वा भव्यत्वरहिताश्च । सम्मत्तं - आप्तप्रतिपादितेषु पदार्थेषु जिनाज्ञया शास्त्रा कर्णानात् श्रद्धापर उपशमसम्यग्दृष्टिः । क्षायकसम्यग्दृष्टिः । क्षायोपशमसम्यग्दृष्टिः । सासादनसम्यग्दृष्टिः । सम्यग्मिथ्यादृष्टिः । मिथ्यादृष्टिश्चेति । तत्र सम्यक्त्वस्य किमुपादानं कृतं अत्रोच्यते । यथा आम्रवने मध्ये निबोऽपि तद्गृह्णेन गृह्यते, यतो मिथ्यात्वं त्रिधा मिथ्यात्व-तासादन- सम्यग्मिथ्यात्वभेदात् । को दृष्टान्तः । यथा यन्त्रमध्ये निक्षिप्ताः कोद्रवाः केचित्समस्ताः निर्गच्छंति, केचिदर्द्धदलिताः केचिच्चूर्णीभूताः । इति एतदेव व्याख्येयम् । तत्रानन्तानुबन्धिक्रोधमानमायालोभमिथ्यात्व सासादनसम्यग्मिथ्यात्वसप्तानां प्रकृतीनामुपशमादीपशमिकसम्यग्दृष्टिः । अत्र सम्यक्त्वस्यावरणोपशमो न सम्यक्त्वस्य मूलकारणस्योपशमः । एतासां सप्तानां प्रकृतीनां क्षयात्क्षायिकसम्यग्दृष्टिः । अनंता - नुबंधादीनां षण्णां उदयाभावात् क्षयः । सदवस्थोदयात्सम्यक्त्वप्रकृत्युदयाद्वेदकसम्यदृष्टिः । सम्यक्त्वात्पतितो मिथ्यात्वमद्यापि न प्राप्नोति अंतराले वर्त्तमानः सासादनसम्यग्दृष्टिः । सर्वे देवाः वंदनीयाः न च निंदनीयाः, इति मिश्र परिणामः सम्यमिथ्यादृष्टिः । आप्तागमपदार्थेषु विपरीताभिनिवेशो मिथ्यादृष्टिः । सण्णि मनोबलेन शिक्षालाग्राही संज्ञी, तद्विपरीत असंज्ञी | संज्ञासंज्ञत्वरहिताश्च । आहारो विग्रहगतिप्राप्ताः जीवाः समुद्धातकेवलिनश्चा । अयोगिनः सिद्धाश्च अनाहाराः । शेषा आहारकाः जीवाः । एवं चतुर्दशमार्गणा व्याख्याताः ।
१. मुक्तजीव इत्यर्थः ।
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org