________________
श्रमणविद्या
२१३ गुणठाणेहि य । चतुर्दशभिर्गुणस्थानैश्च जीवाः ज्ञातव्याः। तत्राप्तागमपदार्थानामरुचयो मिथ्यादृष्टयः । सम्यक्त्वं परित्यज्य मिथ्यात्वमप्राप्तान्तराले वर्तमानाः सासादनसम्यग्दृष्टयः । सर्वे देवा वंदनीया न च निंदनीयाः, सम्यग्मिथ्यादृष्टयः । प्राणेन्द्रियेष्वविरतास्तत्त्वश्रद्धापरा असंयताः सम्यग्दृष्टयः। सवधाद्विरताः स्थावरवधात् अविरताः संयतासंयतसम्यग्दृष्टयः। व्यक्ताव्यक्तविकथाकषायेन्द्रियनिद्राप्रणयप्रमादवशा ते महाव्रतधारकाः प्रमत्तसंयताः । नष्टाशेषप्रमादाव्रतशीलगुणान्विता ध्यानोपयुक्ता अप्रमत्तसंयताः । अतीतसमयस्थितपरिणामैः सर्वथा असदृशपरिणामाः मोहस्योपशमक्षपणोद्यताः अपूर्वकरणास्ते चोपशमकाः क्षपकाश्च । एकस्मिन् समये संस्थानादिभिरेव परिणामैः परस्परं न व्यावर्तते, इत्यनिवृत्तयस्ते क्षयोपशमकाः क्षपकाश्च । पूर्वापूर्वस्यादकं यद्वेदकत्वं तस्मादनंतगुणहीनाः, सूक्ष्मलोभे स्थिताः, सूक्ष्मसांपरायास्ते चोपशमकाः क्षपकाश्च । कतकफलसंयोगादवस्थितपंकस्वच्छजलवदुपशान्ताशेषमोहा उपशान्तकषायाः वीतरागाः छद्मस्था इत्यर्थः । छद्म इति ज्ञानावरणदर्शनावरणस्यास्तित्वात् । स्फटिकमणिभाजनस्थितनिर्मलजलवत् क्षपितशेषमोहाः विशुद्धपरिणामाः क्षीणकषायाः वीतरागाः छद्मस्थाः। केवलज्ञानप्रकाशध्वस्ताज्ञानांधकारः, नवकेवललब्धिसमन्वितः । द्रव्यमनोवाक्काययोगसहायाद्दर्शनज्ञाने युगपज्जातकाः सयोगकेवलिनः । लब्धयः
"दाणे लाहे भोए उवभोए वीरियसम्मत्ते ।
दंसणणाणचरित्ते एदे णव जीवसभावा ॥" चतुरसीतिलक्षणगुणाधिपतयः निरुद्धा अशेषयोगास्रवा अयोगिकेवलिनः । एतानि चतुर्दशगुणस्थानानि ।
ते च जीवाः सकलकर्मक्षयात्सिद्धा भवंतीत्याह_____14) णिक्कम्मा अट्टगुणा किंचूणा चरमदेहदो सिद्धा।
लोयाग्गठिदा णिच्चा उप्पादवएहि संजुत्ता ॥ ते च पूर्वोक्ताः जीवाः सिद्धाः भवन्ति कथंभूता संतः, णिक्कम्मा ज्ञानावरणीयदर्शनावरणीयवेदनीयमोहनीयआयुर्नामगोत्रांतराया इत्यष्टकर्मरहिताः । अढगुणा
"सम्मत्तणाणदंसणवीरियसुहमं तहेव अवगहणं ।
___ अगुरुलहुमन्यावाहं अट्ठगुणा हुंति सिद्धाणं ।।" अत्रानंतानुबंधिक्रोधमानमायालोभमिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वसंज्ञानां सप्तप्रकृतीनां क्षयः क्षायिकं सम्यक्त्वम् । अशेषविशेषतः सकलपदार्थेषु रुचि इत्यर्थः । तस्माच्च ये उत्पन्नाः दर्शनज्ञानमूलभूताः परमानन्दस्वरूपसंवेदका आत्मपरिणामास्ते एव सम्यक्त्वम् । एतदेवानंतसुखमुच्यते । युगपत्सकलपदार्थज्ञातृत्वं ज्ञानम् । युगपदशेषपदार्थावलोकनं दर्शनं उक्तानामनंतसुखादीनां सप्तानां गुणानां निरवधिकालनिरवधि
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org