________________ // श्री जिनस्तवनम् // 123 स्वामिंस्त्वदीयः खलु यो नियोगः सुरासुराणामपि माननीयः। विहाय तं मूढधिया प्रवृत्ति: कृता मया दुष्टजनस्य बुद्धया // 53|| उत्सर्गमार्गश्च तथापवादो द्वयं जिनप्रोक्तमिति प्रकल्प्य। स्वामिन् मया सर्वमकृत्यकृत्यं द्वितीयमार्गे निहितं प्रमादात् // 54|| स्वामिन् मया सद्गुरुसन्निधावपि व्रतं गृहीत्वा न तथैव रक्षितम्। तद्भङ्गसंभूत-तमोभराच्च यद् बिभेमि नाहं तदशिष्ट पध्दतिः / / 55 / / प्रभो मयाऽकब्बरनामधेय श्रीमद् सुरत्राणबलेन साकम्। समेत्य कश्मीरभुवं स्वकीयं कृतं न कृत्यं स्मरणोचितं यत् // 56 // मयाकृतं पर्वणि तूपवासो जनेष्विति प्रोच्य च साभिमानम् / प्रतिश्रयं प्राप्य तदेव जग्धं स्वामिन्नहो मोहविजृम्भितम् मे // 57 // कायेन विष्वक् परिवेष्टितस्य हालाहलस्येव मम स्वरूप। जानीहि विश्वत्रितयावतंस! बहिर्मनोहत् कटुकं यदन्तः // 58 // . 57||