________________ 124 અમૃત મહોત્સવ સ્મૃતિ વાં स्वामिन् समग्रास्वपि यत् क्रियासु वैदग्ध्यमेवादधदप्यहं यत्। प्रवृत्तवांस्तास्वपि नो कदाचित् ___ विशुध्दबुद्धया गुरुनोदितोऽपि // 59 // स्वामिन् जहांगीर-महीश-सन्निधौ स्थित्वा कियत् कालमनिंद्यवैभवम् / परस्य कृत्यानि कृतान्यनेकशः स्वार्थस्तथावस्थित एव तस्थौ // 60 // असारसंसारपयोधिमज्जतां त्राता त्वमेवाऽसि नृणां न चापरः / जाननपीदं यदभूवमुच्चै स्त्वदन्यसेवारसलम्पटोऽहम् // 61 // ईक्षे कुमारान् व्रजतो हि यावत: कर्तुं विनेयान् स्पृहयामि तावत:। स्वामिन् कुकर्मोदयत: किमेषा प्रवर्धते लोभ-परम्परा मे // 62 // इति स्तुतोऽर्हन् स्वहितानुशासन प्रमादजन्याचरणप्रकाशनात्। श्री भानुचन्द्राभिध वाचकस्य मे भवेभवे त्वं भव बोधिलाभदः // 63 // इति श्री जिनस्तवनम् श्री शत्रुञ्चय करमोचनादि सुकृतकारि महोपाध्याय श्री 19 श्री भानुचन्द्र गणि चरणसरोज मधुव्रत पण्डित श्री उदयचन्द्रगणिना लिखितम्। ग. प्रेमचन्द्रकृते संवत् 1677 वर्षे आसो मासे शुक्ल पक्षे पञ्चमी दिवसे बुधवारे करहडा नगरे इति भावकं भूयात्।