________________ 118 અમૃત મહોત્સવ સ્મૃતિ जिनेश!मिथ्यात्वविकारविक्लव स्वान्तस्य मे श्रेयसि नाभवद्रुचिः। योतऽऽभयग्रस्त शरीरभाजो भोज्ये मनोहारिणि सौख्यदेऽपि // 23 // अत्यंत सुस्वादुमयैव भोज्य मिदं तथा नेति न भक्ष्यमेतद्। इत्यादि सर्वं रसनैकहेतुजं जिनेश चक्रेमयकाऽधमेन // 24 // धामस्थसंतुष्टिकृते गतागते मया गते नाथ तदीय वेश्मसु। जिनालये सौवसमीपवर्तिनी प्रकृष्ट बुद्धयैव कदापि नो गतम् // 25 // तत्तन्मनोहारि पदार्थसार्थे जिनेश मे दृप्पथमागतेऽस्मिन्। तल्लिप्सयैवात्र मनो मदीयं सदैव संतप्तमिवावतिष्ठते // 26 // स्वामिन् सदाचारविचारवद्भि दत्तं मनोहारि यदेव वासः। नैवोपभोगाय मयाऽपि कल्पितं दत्तं न चान्यस्य तथैव तद्गतम् // 27 / / स्वामिन् मया कारि यदत्र पुण्यं स्मयेन सर्वं विफलीकृतं तत्। अतोऽत्र नामुत्र च किञ्चनाऽपि भोक्तव्यमस्तीति भृशं भयं मे // 28 //