________________ // नाभेयजिन विज्ञप्तिरूपं स्तवनम् // 107 निरत्ययं ये भवदंघ्रियुग्मं भक्त्या भजन्ते भुवि जन्मभाजः / हर्षाश्रुपूरप्लुत देहदेशा स्तेषां प्रभो जीवितमेव धन्यम् // 65 // अहं त्वदीयं शरणं प्रपद्य शरण्य ते सन्निधिमागतोऽस्मि। सीदन्तमुग्रव्यसनाधिमग्नं मां रक्ष विज्ञात्मपदे विलग्नम् // 66 // जानाम्यहं नाथ कदापि पूर्वं त्वन्नाममंत्रो न मया श्रुतोऽस्ति। त्वन्नाममंत्रश्रवणे त्ववश्य / विपद्भुजंगी न समीपमेति // 67|| दर्श च दर्श च मनो मदीयं ___ संसार हल्लीसकमीयुषां श्रमम्। विश्रम्यतां तत् चलने त्वदीये जम्बूमनावेव यथापवर्गः // 68 // पापेन पीनं सुकृतेन हीनं __दुरात्मनीनं कुपथाध्वनीनम् / दोषाब्धिमीनं च सदैव दीनं पुनीहि मां चेत् पतितान् पुनासि // 69 / / दृष्टोऽसि पूर्वं बहुशस्तुतोऽसि पाटीरकल्कादिभिरर्चितोऽसि / परं मया पापधिया कदापि न भक्तिपूर्वं विधृतोऽसि चित्ते // 70 //