________________ 106 અમૃત મહોત્સવ સ્મૃતિ માં यस्याहविर्दध्यपि भुज्यतेऽनिशं दुग्धं च पीयूषनिभं निपीयते। मातेव धेनुरनिमित्त - वत्सला निपात्यते सापि कथं दुरात्मभिः // 59 // श्रुत्वेति सम्यक् समये मयोक्तं चमत्कृताश्चेतसि शाहिराजः। नि:शेष देशेषु विलिख्य पत्रं ___न्यवारयत् गोवधमुग्रतेजाः // 60 // इत्यात्मगर्दा करणेप्यपूर्वं विरूपितं यत् सुकृतं कृतं तत्। अथात्मगर्हा करणाद् विरम्यते विज्ञप्यते नाभिनरेन्द्र संभवा // 61 // असारसंसार-पयोधिमध्ये त्राता त्वमेवासि निमज्जतां नृणाम्। जानन्नपीदं किमभूवमज्ञ स्त्वदन्यसेवा रसलम्पटोऽहम् // 62 // इह त्वदीयः खलु यो नियोग: सुरासुराणामपि माननीयः। विहाय तं मूढधिया त्वदन्य देवाज्ञया नाथ मया प्रवृत्तम् // 63 // बाह्ये समन्तात् मधुवेष्टितस्य हलाहलस्येव मम स्वरूपं। जानीहि विश्वोद्धरणैक धीर! बहिर्मनोहत् कटुकं यदन्तः // 64||