________________ 102 અમૃત મહોત્સવ સ્મૃતિ રે भ्रान्तिं विमोहान् मम कारयन्ति वाक्यानि ते नाथ यथास्थितानि। स्थाने हि तद्ग्रीष्मभरान् मरीचिका पुंसां जलभ्रान्तिकरी न किं स्यात् // 35 // महीतले निर्दय मानवाना___महं विधात्रा विहितोऽस्मि मुरव्यः / करंकशेषानपि वीक्ष्य रङकान् यतो न जाता हदि मे दयाऽपि // 36 // मया कृतं यत् सुकृतं क्रियादिकं करिष्यते यत् क्रियते च नित्यं / फले-ग्रहि ! भविता ममैत द्यतो न निर्दम्भतया विधीयते // 37 // अन्यं समाख्याय जनस्य रात्रौ किञ्चित्तदन्यद्विहितं पुन: प्रगे। इत्यस्मि विश्रंभविनाशहेतुः स्वामिन्नहं पापकृतां हि मुख्य: // 38 // कृतं ऋजुत्वं बहिरेवनान्त मुखे च माधुर्यमधारि दम्भात्। परं मया नैव कदापि मुक्तः स्वान्तस्थ कालुष्यकलङ्कपङ्कः // 39 // यो यं कृतान्तस्तव मोहमत्त मातङ्ग-विध्वंसन-पञ्चवक्त्रः। अध्यापित: सोऽपि मया स्ववैया वृत्यर्थमेवाऽत्र तदस्तु धिग् माम् // 40 //