________________ नाभेयजिन विज्ञप्तिरूपं स्तवनम् // 101 तत्तन्मनोहारि पदार्थसार्थे जिनेश दृम्पथमागते सति। तल्लिप्सयैवात्र मनो मदीयं सदैव संतप्तमिवावतिष्ठत्। // 29 // मयाकृतं चेत् सुकृतं कदाचित् गर्वेण सर्वं विफलीकृतं तत्। अतोऽत्रनामुत्र च किञ्चनाऽपि ___ भोक्तव्यमस्तीति भृशं भयं मे // 30 // दुष्टा मदीया रसना निकृत्या पुरः परेषां मधुरं ब्रवीमि। विभाव्य सम्यग् हदि किन्तु नैवं शिवप्रदः शान्तरसो रसेन्द्रः // 31 // समागते पर्वणि तत्तपोऽर्थे श्रद्धावतां स्वीयमतानुरागिणाम्। दत्तो मया तीव्रतरोऽपदेशो न चात्मना तद् विहितं हतेन // 32 // दुरात्मना नाथ मया कदापि विटेन शीलस्य कथैव नो कृता। तद्धेतुक: कोऽपि शुभोपदेश स्तथा परेषामपि न प्रदत्तः // 33 // त्वदीय सद्ध्यान - रसेन्द्रयोगात् संजायते स्वात्मनि तारभावः। तथाऽपि मूढेन मया तदर्थ मम्यर्थिता केचन योगिनोऽपि // 34 //