________________
बुन्देलखण्डं सद्गुरु श्रीवर्णी चयस्यारण्येषु शार्दूला, नरसिंहाः पुरेषु च । वसन्ति तत्प्रियं भाति, विन्ध्येला (बुन्देला) मण्डलं भुवि ॥१॥ नैसगिकी यत्र कवित्वशक्ति-विलोक्यते ग्राम्यजनेष्वपूर्वा । उपात्तविद्या यदि 'काव्यवित्ता, भवन्ति तत्रास्ति किमत्र चित्रम् ।।२।। सर्वत्र लभ्य मधुरैः पयोभि-रनोकहैः पुष्पफलद्धिपूर्णैः । हृद्यश्च सात्म्यैः शिशिरैः समारै-विभात्यसौ देशमणिर्दणि':॥३॥ गिरिव्रज रुन्नतसानुमद्भिर्या रक्ष्यते रक्षिसमै रजस्रम् । दु मेषु यस्या विविधा विहङ्गाः, कूजन्ति सा चारु दशार्णभूमिः ।।४।। अन्येषु देशेषु जना व्यथन्ते, दिवानिशं प्राप्य निदाधकालम् । संजायते किन्तु दशार्णभूमौ विभावरीयं शिशिरा तदापि ।।५।। *वन्योपसर्गान् बहुदुःखपूर्णान्, शृण्मः पठामश्च परत्र देशे। एतैश्च भूकम्पनिभैर्न किन्तु, पीडा भवत्यत्र दशार्णदेशे ।।६।। य वीक्षित प्रत्यह माव्रजन्ति देशाद्विदेशाच्च जना अनके। रेवाप्रपातः स हि धूमधारः सत्यं दशाणे रमणीय वस्तु ।।७।। चर्मण्वती, वेत्रवती, दशार्णा, श्रीपार्वती, सिन्धु, कलिन्दकन्याः। श्रीटोंस, रेवा, जमनार, केनाः, सिंचन्ति नीर विमल र्दशार्णम् ।।८।। प्रसादमाधुर्यगुणोपपेता, गीतप्रबन्धाः प्रचुराश्च शब्दाः । मिलन्ति यस्यां जननीनिभां तां, विन्ध्येलभाषामनिशं नमामि ॥९॥ तुल्सी, विहारी, "रइधू कवीशाः, श्रीमैथिली, केशवदासतुल्याः । अके हि यस्या नितरां विभान्ति सरस्वती सा सफलैव यत्र।।१०।। यस्य प्रतापतपनात् किल शत्रुवर्गो, घूकोपमः समभवद् गिरिग ह्वरस्थः । वीराग्रणी: सुभटसंस्तुत युद्धकारी, यत्राभवज्जनमतो नृपतुङ्ग धुङ्गः ॥११॥ यस्यैव पावें भटवर्यमान्या, आल्हादिवीराः सुभटा बलाढ्याः । आसन स भूत्या जगति प्रसिद्धो, बभूव देवः परमदि रत्र ।।१२।। कीर्त्या महत्या सह कर्मनिष्ठः प्रतापसंतापित वैरिवर्गः। स्वयं गुणी सन् गुणिनाञ्च भक्तः श्रीछत्रसालोऽजनि यत्र भूपः ॥१३॥ सुवर्णदानस्य कथेह लोके, नैव श्रुता केन जनेन यस्य ? स वीरवर्यो नृपवीरसिंहो, विन्ध्येलभाले तिलकेन तुल्यः ।।१४।। मातेव रक्षां परितः प्रजानां विधाय याजौ निजघान शत्रुन् । दुर्गावती सा पुरुषातिवीरा बभूव यत्र त्रिपुरी-प्रशास्त्री ।।१५।। जनेषु यस्यास्ति विशालकीर्ति-धनेषु दाने च कुबेरतुल्यः ।
"आहारदानेश्वर" इत्युपाधि-विभूषितो देवपतिः सुभव्यः ।।१६।। १ कवि कर्मणि प्रसिद्धाः,२ विन्ध्येलखण्डस्य प्राचीन नाम, ३ प्रहरिक तुल्यः, ४ भाषायां वाढ़ इति। ५ रइधू देवगढ़-निवासी प्राकृत भाषायाः महाकविः । ६ भाषायां परमाल इति।
छयासठ