________________
वा. बा. भागवत
Makaranda
नैकमप्युपलभ्यते इत्यहो महद्दौर्भाग्यं पाणिनिपरंपरायाः ।
कदाचित्स्यादेतद्प्रस्तुम्, अधुना प्रस्तुतमनुसरामः । उच्चस्तरां वा वषट्कारः' १. २. ३५ इतिसूत्रव्याख्यानावसरे काशिकायां वषट् शब्देनात्र वौषट् शब्दो लक्ष्यते, वौषट् शब्दस्यैवेदं स्वरविधानम्, तर्हि वौषट् ग्रहणमेव कुतो न कृतम् ? वैचित्र्यार्थम्, 'विचित्रा हि सूत्रस्य कृतिः पाणिनेः' इति लिखति वृत्तिकारः ।
स्वं रूपं शब्दस्याशब्दसंज्ञा १. १. ६८ इति व्यवस्था सूत्रकारेण पाणिनिना स्वयमेव प्रतिज्ञाता । तामनुसृत्य सूत्रे निर्दिष्टाः शब्दाः तानेव शब्दान् उद्दिश्य प्रयुज्यन्ते, न तत्समानार्थान् पर्यायान्, विशेषान् वा । अस्यां स्वतन्त्रव्यवस्थायां सूत्रेऽत्र निर्दिष्टः 'वषट्' शब्दः समानार्थं वौषट् शब्दं लक्षणया बोधयति, तस्य लक्षितस्य वौषट्शब्दस्यैव स्वरविशेषणमुच्चस्तरत्वं सूत्रमिदं विदधाति । इति स्वयमभ्युपगतस्य तन्यस्य परित्याग: कतः ? इत्यनयोगे काशिकाकारः समाधत्ते 'वैचित्र्यार्थम, विचित्रा हि सूत्रस्य कृति: पाणिनेः' इति ।
'मन्त्रे वृषेषपचमनभूवीरा उदात्तः' ३.३.९६ इतीदं सूत्रं वेदे वृष्इष् इत्यादिभ्यो धातुभ्यः क्तिन् प्रत्ययं तस्योदात्तस्वरं च विदधाति । प्रत्ययविधायकेषु सूत्रेषु सर्वत्र 'परः' इत्यधिकारो वर्तते । तदनुसृत्य सर्वत्र प्रकृतिवाचकस्य पञ्चमीविभक्तिः प्रयुज्यते । यथा 'धातोः' 'प्रातिपदिकात्' 'गुप्तिच्किद्भ्यः' इत्यादि, परमत्र सूत्रे प्रकृतेः प्रथमा विभक्तिः प्रयुक्ता तदयं स्वयमभ्युपेताया बहुत्रानुसृताया व्यवस्थायाः परित्यागः कुतः ? काशिकाकार: समाधत्ते । 'वैचित्र्यार्थम्' इति । __एवमेवान्यत्रापि बहुषु सूत्रेषु सूत्रकृता कृतं स्वतन्त्रपरित्यागमनुयुज्य इदमेव वैचित्र्यमुत्तरमावर्तयति । 'उदीचाभिज्' ४. १. १५३, 'प्राचामवृद्धात् फिन् बहुलम्' ४. १. १६०, 'उत्तमैकाभ्यां च' ५. ४. ९० 'ईडजनोचे च' ७. २. ७८ एतेषु सूत्रेषु काशिकावृत्तिर्द्रष्टव्या ।
नैकवारमेवमेव समाधातुः काशिकाकारस्य कोऽभिप्रायः संभाव्यते विचित्र-शब्दस्यार्थाः वक्तुरभिप्रायं संदर्भं चानुसृत्य भिद्यन्ते 'विचित्रं हि परमेशानस्य सामर्थ्यम् । अत्र कर्तुमकर्तुमन्यथाकर्तुमलंभावः इत्यर्थः प्रतीयते स च परमेशितुरन्येभ्यः विशेषगुणवत्तां स्तौति । परं 'हतविधिलसितानां हि विचित्रो विपाक:' शिशुपालवधे ११. ६४ इत्यादौ अन्यवैलक्षण्येपि न स्तुतिः पर्यवस्यति, किंतु उच्छृङ्खलत्वमतएव दोषवत्त्वं प्रतीयते ।। __पाणिनिमुनौ द्रढिष्ठं श्रद्धानाः प्राचीना अभ्यासका स्तावत् एवमभिप्रयन्ति यत्-इदं काशिकारकृतं नैकवारमावृत्तं समाधानं भगवतः पाणिनेः विशेषगुणवत्तामेव स्तौति । परमेशानस्य विश्वरचनायां यथा कर्तुमकर्तुमन्यथाकर्तुं विलक्षणं सामर्थ्यमव्याहतम्, “एवमेव