________________
विचित्रा हि सूत्रस्य कृतिः पाणिनेः
व्याकरणसूत्ररचनायां सूत्रकर्तुः भगवतः पाणिनेः । अतः ते प्राचीनाः टीकाकाराः क्वचन कंचन पर्यनुयोगमुद्भावयन्ति परं सर्वतन्त्रस्वतन्त्रस्य मुनेरीदृशपर्यनुयोगानर्हत्वादिति समाधाय पर्यनुयोगमूले एव कुठाराघातमाघ्नन्ति । महाभाष्यकारादिभिस्तत्रतत्रैवमेव बहव उद्भाविताः पर्यनुयोगाः सूत्रदोषा वा एवमेवापातरमणीया इत्येव श्रद्दधते श्रद्धावन्तः पाणिनीयाः ।
85
अधुना अपरा विमर्शसरणिः प्रस्तूयते - महाभाष्यं तथैव काशिकाया अनन्तरं यानि नैकान्यष्टाध्याय्या व्याख्यानानि ऐशवीयसप्तदशशतसंवत्सरं यावत् बहुभिर्विद्वद्धि लिखितानि, तेषु काशिकाव्याख्यानं तदितरेभ्यः सर्वेभ्यः वैलक्षण्यं बिभर्ति । महाभाष्यादीनि व्याख्यानानि पाणिनिमुनौ पाणिनीयपरंपरायां विशिष्य वैदिकपरंपरायां नितरां श्रद्दधते । ते सर्वेपि व्याख्याकाराः 'भगवान् पाणिनिः' इत्येव संवदन्ति । ग्रन्थादौ महाभाष्यकारेणेदंप्रथमतया बहुत्र नितरां प्रस्तुतां मङ्गलाचरणपरंपरां श्रुतिवचनमिव स्वतः प्रमाणमिति नियतमनुसरन्ति । काशिकाकारः स्वव्याख्योपक्रमे नेष्टां देवतां वन्दते, नापि सूत्रकारं स्मरति । तटस्थतामवलम्ब्योदास्ते । साक्षाट्टीकावस्त्वेवोपन्यस्यति 'वृत्तौ भाष्ये तथा धातुनामपारायणादिषु' इत्यादि ।
यद्यपि काशिकाकार: पाणिनिमुनौ विद्याकारणान्महान्तमादरभावं बिभर्ति यथा 'आकुमारंयशः पाणिनेः' (१. ४. ८९, २. १. १३), तथाप्यन्यआदरभावः, अन्यः च श्रद्धातिशयः । श्रद्धातिशये केवलं गुणपक्षपातिनी भक्तिर्दृश्यते सा श्रद्धेयस्य देवताया, ऋषेः, मुनेर्ग्रन्थस्य वा केवलं गुणानेव पश्यति, गुणानेव गायति, प्रशंसति वा न दोषं दोषसमुदायमपि । आदरभावे आदरार्हस्य गुणानिवं दोषानप्यादर्तावश्यं जानीयात्, लब्धेऽवसरे च दोषानपि स्पष्टं ब्रूयात् सूचयेद्वा । यत आदरभावे मध्यस्थता, उदासीनता तटस्थवृत्तिर्वा नियतं जागर्ति, या श्रद्धातिशये आवृता भवति, निद्राति, अन्धतामुपयाति वा । अतः मध्यस्थः काशिकाकारः आदरभावं दधानोऽपि नैकवारमावृत्तेन वैचित्र्यार्थम् इति समाधानेनेदमेव सूचयति सूत्रकारस्येयं विचित्राकृतिः स्वयमभ्युपगतस्य तन्त्रस्य नैकवारं परित्यागादभ्यासकानां संभ्रमकारिण्येवात एव न शोभना, नापि कथमपि सोढुं शक्या क्षमा वा ।
यतः
मनागतभ्यावृत्या वा कामं क्षाम्यतु यः क्षमी । क्रियासमभिहारेण निस्तन्त्रत्वं क्षमेत कः ॥
अतः एतानि तन्त्रोल्लंघनानि - कामं तानि सर्वतन्त्र स्वतन्त्रस्य मुनेर्वर्तन्ताम् - दोषा एव ।