________________
विचित्रा हि सूत्रस्य कृतिः पाणिनेः
वा. बा. भागवत
भगवता पाणिनिना संस्कृतभाषायाः सूत्ररूपं व्याकरणं प्रायः सार्धद्विसहस्र-संवत्सरेभ्यः पूर्वं व्यरचि । तदेवाष्टाध्यायीति नाम्ना प्रथितम् । तस्य च सूत्ररूपत्वात् सर्वतन्त्रस्वतन्त्र तन्त्र निबद्धत्वाच्च सूत्रार्थं ज्ञातुं व्याख्यानं नितरामपरिहार्यं वर्तते । तत्र व्याख्यानं नाम तावत् किंस्वरूपमिति. जिज्ञासायां
पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥ इति परिभाषितं वर्तते । यद्यप्यत्र व्याख्यानलक्षणे षड्विधत्वं संगृहीतं, तथापि पाणिनिसूत्रदृष्ट्या तदुपलक्षणभावेनैव ग्राह्यम् । उदाहरणप्रत्युदाहरणादीनामप्यवश्यसंग्राह्यत्वात् । यत उदाहरणं नाम सूत्रस्य फलरूपं साध्यम्, प्रत्युदाहरणं नाम सूत्रस्थपदानां समर्थकम् ।। ___ एतादृशं सर्वाङ्गपूर्ण व्याख्यानं भगवता पाणिनिना स्वयमेव स्वशिष्येभ्यः पाठितं स्यादित्यनुमातुं शक्यते । यद्यप्येतादृशं स्वोपज्ञं व्याख्यानमद्यत्वे न क्वाप्युपलभ्यते, तथापि विनैतादृशं व्याख्यानं बहूनि सूत्राणि मूकानि अर्थात् निरर्थकान्येव स्युः, अत एतादृशं स्वोपज्ञं व्याख्यानं केवलं मुखपरंपरया सामाजिकस्मृतिसंतानेन बहूनि संवत्सरशतकानि वेदवत् प्रवाहरूपेणाभ्यासकै रधीतं ज्ञातं च स्यादित्यत्र न संशीतिलेशोऽपि । 'आकडारादेकासंज्ञा' १. ४. १ इतिसूत्रविवरणे महाभाष्यकारः वदति यत् केचन शिष्याः भगवता एवमध्यापिता इति ।
यद्यपि महाभाष्यमपि पाणिनिसूत्रव्याख्यानमेव, तथापि न तत् सर्वाङ्गपरिपूर्णम्, नापि अष्टाध्याय्याः समेषां सूत्राणां व्याख्यानम् । यतः अष्टाध्याय्यां वर्तमानानां सूत्राणामर्धाधिकानि सूत्राणि महाभाष्ये नैव व्याख्यातानि ।
सांप्रतमुपलब्धेषु नैकेषु अष्टाध्यायीव्याख्यानेषु ऐशवीये सप्तमसंवत्सरशतके वामनजयादित्याभ्यां द्वाभ्यां विद्वद्भ्यां लिखिता काशिकावृत्तिरेव प्राचीनतमा सर्वाङ्गपरिपूर्णा सर्वेषु सूत्रेषु उपलभ्यते । अष्टाध्यायी-सूत्रकालमारभ्य काशिकावृत्तिकालं यावत् प्रायः सहस्रं संवत्सराणामतीतम् । तेषु नैकानि व्याख्यानानि बहुभिर्विद्वद्भिलिखितानि स्युरेवपरमधुना