________________
266
જિતેન્દ્ર શાહ
Makaranda
माहात्म्यविशेष सिद्धिरिति अस्मदाद्यदृष्टवैगुण्य विकल्पस्तु न सम्भवत्येव संशयानिवृत्तेः किं तस्या दृश्यत्वाददृश्यशरीरित्वं बान्धेयादिवत् यद्वास्मदाद्यदृष्ट वैगुण्यादिति न द्वितीयविकल्पेनापि तस्यादृश्यशरीरित्वं सिद्ध्यति किं च घटादिकार्याणां शरीरिकर्तृकत्वदर्शनात् । कथं तद दृष्टान्तावष्टम्भेण भू-भूधरादीनामशरीरिकर्ता कल्पयितुं शक्यः तस्मात् सशरीराशरीरलक्षणपक्षद्वयेऽपि कार्यत्व हेतोर्व्याप्त्यसिद्धि जगद्विधातृणामनेकत्वेऽपि न वैमत्ये ना समंजसापत्तिः । कीटिकाशतनिष्पाद्यतेऽपि शक्रमूनि एकरूपतयोपलंभात्तथा प्रकृते ऽपि संभवात् । किं च यथा अपरकर्तृ तिरस्कारेण भू-भूधराणामीश्वरः कर्ता कल्पते तथा किं न घटपटादीनामपि कुंभकार कुविंदादि कर्तृतिरस्कारेण स एव कर्ता कल्पते । अथ तेषां प्रत्यक्षसिद्धं प्रत्यक्ष सकर्तृकत्वं कथमपह्रोतुं शक्यते तर्हि कीटिकादिभिः किमपराद्धं यत्तेषां तथाविधप्रयाससाध्ये शक्रमू दौ महेश्वरकत्तृत्वं कल्पत इति तस्माद्वैमत्य-भयान्महेशितुरेकत्व कल्पना व्यथैव तस्मादुर्व्यादि कर्तृत्वाभावान्न तस्य सार्वश्यं नापि तस्य नित्यत्वेन सार्वश्यं सिद्ध्यति तस्य नित्यत्वाभावात्तथाहि महेश्वरः खलु नित्यत्वेनैकस्वभावः सन् भुवनानि सृजति अपरस्वभावो वा प्रथमविकल्पेदान कदाचिज्ज-गन्निर्माणादुपरमते । तदुपरमे च एक स्वभावत्व व्याहतेः तथा च सकल क्रियाया अपर्यवसानात् एकस्यापि कार्यस्य न सृष्टिं अपर-स्वभावत्वे तु तस्या नित्यत्वमेव स्वभावभेदेन स्वभाववतोऽपि भेदात् इति प्रमेयकमल-मार्तण्डवचनात् ।
किंञ्चेश्वरो येनैव स्वभावेन जगन्ति सृजेत्तेनैव तानि संहरेत् स्वभावान्तरेण वा । तेनैव चेत् सृष्टि संहारयोर्योगपद्यप्रसङ्ग एकस्वभावाविशेषात् । जगत्सर्जनस्वभावभिन्न स्वभावेन चेत् संहरते तहि स्वभाव भेदात् कुतस्तस्य सार्वज्यं सिद्ध्यति नापि स्वातन्त्र्येण तस्य सार्वइयं सिद्ध्यति महेश्वरो हि परमकारुणिकः स्वाधीन एव विश्वं विधत्ते तत् किं सुखित दुःखिताद्यनेकावस्थं घटति अनन्ताद्वैतसुखवदेव किं न निर्मिमीते अथ पूर्वार्जित तत्तत्तदीय शुभाशुभादृष्टप्रेरित एव तथा करोतीति चेत् तर्हि अदृष्टजन्ये जगद्वैचित्र्ये किमनेनान्तर्गडुनेति । किं च जन्तूनां धर्माधर्मावपेक्ष्य चेत् सृजति तर्हि तु न तो सृजतीति सम्पन्नं तथा च कथं तस्य जगति सकलोत्पत्तिमत्पदार्थकर्तृत्वं तथा च धर्माधर्मापेक्षकत्वेन स्वातन्त्र्याभावान तस्य सार्वज्ञ्यं तस्मादतीन्द्रियार्थद्रष्टा भगवान् सर्वज्ञ आप्तसूत आप्तज्ञानपरिछिन्न यावत्पदार्थ प्रतिपत्तिरागम इत्यागम प्रमाणं ततः स्पष्टास्पष्टभेदाभ्यां स्वपरव्यवसायिज्ञानात्मक एक एव हारो युग्मात्मको द्विसरिको भातीति भावः एतादृशमपि हारं त्यक्त्वा विपरीतदर्शीयः कञ्चिदयोग्य हारं परिधत्ते तस्य मौढ्यं दर्शयन्नाह ।
यौगो हृदि स्वे जिन सन्निकर्षधत्तूरहारं निदधाति मूढः ।
हित्वा तमप्युष्ट्र इवेक्षुकाण्डं बुब्बूलजालं वदने स्वकीये ॥१५॥ तमपि स्व-पर-व्यवसायिज्ञानलक्षणप्रमाणहारं हित्वा त्यक्त्वा यौगः स्वहृदि सन्निकर्षरूपधत्तूरहारं निदधाति न्यस्यति अयं भावः । ज्ञानात्मकत्वेन स्वप्रकाशे परमुख प्रेक्षित्वाभावेना जाड्यवत्यपि वस्तुनि प्रामाण्यमनादृत्य स्वप्रकाशासमर्थे सन्निकर्षादौ स मूढः