________________
પદ્મસાગરગણિકૃત ‘પ્રમાણપ્રકાશ’
प्रामाण्यमङ्गीकुरुते इति तत्र दृष्टान्तमाह ॥ इव यथा ॥ उष्ट्रः इक्षुकाण्डं त्यक्त्वा बुब्बूलजालं बुब्बूलवृन्दं स्वमुखे निदधाति । अत्र चोष्ट्रस्थानीयो यौगः स च बुब्बूलस्थानीयं सन्निकर्षप्रामाण्यं इक्षुकाण्डस्थानीयं ज्ञानप्रामाण्यं हित्वा आदत्त इति न च सन्निकर्षस्य प्रमाकरणत्वेन प्रामाण्यं स्यादिति वाच्यम् । प्रमाकरणत्वस्य घटादावप्यविशेषेण तस्यापि प्रामाण्यप्रसंगात्तथाहि किं नाम करणत्वं व्यापारवत्कारणत्वं चेत्को हि व्यापारस्तज्जन्यत्वे सति तज्जन्यजनकत्वं चेद् व्यापारवत्वं तर्हि घटादावप्यविशेषात्तस्येति संनिकर्षस्य हि घटजन्यत्वे सति घटजन्य चाक्षुष प्रमाजनकत्वेन घटस्यापि सन्निकर्षलक्षणव्यापारवत्वात् न च तन्मात्रनिष्टकार्यतानिरूपित कारणता - वच्छेदकधर्मवत्वं करणत्वं इति वाच्यम् । तस्यापि घटादावविशेषात् तत् शब्देन हि चाक्षुषज्ञानं तन्निष्टा या कार्यता तन्निरूपिताया कारणता तस्या योऽवच्छेदको धर्मस्तद्वत्त्वं करणत्वं घटेऽपि समानमेव तत्र तच्छब्देन हि घटविषयकं चाक्षुषज्ञानं तन्निष्टकार्यतानिरूपित कारणतावच्छेदक धर्मो हि घटत्वं भवति । घटत्वावच्छेदेनैव घटविषयक चाक्षुष ज्ञानोत्पत्तेः । ततो न प्रमाकरणत्वेन सन्निकर्षस्य प्रामाण्यं स्यात् किं च न सन्निकर्षः प्रमाणं स्व परिच्छित्य जनकत्वात् यदेवं तदेवं यथा घटः न च प्रमाणत्वलक्षणसाध्यव्यापकत्व-परिच्छित्य- जनकत्व लक्षणसाधनाव्यापकत्वेनार्थ परिछित्तिजनकत्वं उपाधिस्तस्य साधनव्यापकत्वात् । न सन्निकर्षः प्रमाणं जडत्वाद् घटवत् चेति न च यत्र प्रमाणत्वं तत्र प्रमाकरणत्वमिति । साध्यव्यापको यत्र च जडत्वं तत्र प्रमाकरणत्वं एव नास्ति घटे व्यभिचारादिति । साधनाव्यापकं प्रमाकरणत्वमुपाधिरिति वाच्यम् उपाधेः साध्यव्याप्तौ अन्वय- व्यतिरेक- व्यभिचारस्य पूर्वोक्तत्वात् । तस्माद्धत्तूरहारप्राय सन्निकर्षस्य जडरूपस्यापि प्रामाण्याङ्गीकरणे तस्य मौढ्यं दर्शितमिति पञ्चदशकाव्यार्थः ॥
267
अथ यौगेनोपचारादि प्रकारतः प्रमाणाभासस्यापि सन्निकर्षस्य कथञ्चित्प्रामाण्यं व्यवस्थाप्य तद्रूपधत्तूरहारं परिहितं दृष्ट्वा यत्कृतं भगवता तदाह ॥
अत्रोटि तीर्थाधिप सन्निकर्ष हारस्त्वयेत्थं प्रतिबंदि पाणिना । तथाहि विज्ञान विधायकरत्वोपचारतस्तस्य यदि प्रमाणता ॥ १६ ॥
अहो स्वामिंस्त्वयेत्थं वक्ष्यमाण- प्रकारप्रतिबंदिरूपो यः पाणिस्तेन कृत्वा सन्निकर्ष हारस्त्रोटितस्तस्य प्रामाण्यं निरस्तमित्यर्थः । तामेव प्रतिबन्दीं दर्शयन्नाह तथाहीति ॥ अहो यौगेत्यध्याहार्यं अहो योग ! तस्य सन्निकर्षस्य विज्ञानविधायकत्वेन उपचारतो घृतमायुरित्यादौ यथा घृते आयुः कारणत्वेनायुरुपचारो दृश्यते तथा स्व- पर व्यवसायि - ज्ञान - लक्षणप्रमाणजनक सन्निकर्षे ज्ञानलक्षण प्रमाण कारणत्वेन प्रमाणोपचारात् यदि प्रामाण्यं ब्रूषे तर्हि श्रुणु प्रतिबन्दी विचारमिति षोडशकाव्यार्थः ।
अथ तमेव प्रतिबन्दीमाह ||
आत्मादिकं तह्यंविशेषतस्तु तत्कारणत्वे तदिवोपचारतः ॥ प्रमातृमेयत्व विरोधितत्वादङ्गिनो तन्न तथेति वाच्यम् ॥१७॥