________________
265
પદ્મસાગરગણિકૃત ‘પ્રમાણપ્રકાશ’
अतीन्द्रिय-ग्रहणासामर्थ्यात् नापि परोक्षेण तद्धि अनुमानं शाब्दं वा स्यात् न तावदनुमानं लिंगलिंगिसम्बन्धस्मरण-पूर्वकत्वात् । न च तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यं अनुपपद्यमानं सर्वज्ञत्वं अर्थादापादयतीति चेत् न अविनाभावा (द् ) जगद्वैचित्र्यस्य सार्वज्ञ्यं विनाप्युपपत्तेः । तथाहि । द्विविधं जगत् स्थावर जंगम भेदात् । तत्र जंगमानां वैचित्र्यं स्वोपात्तशुभाशुभकर्मपरिपाकवशेनैव । स्थावराणान्तु सचेतनानामियमेव गतिः । अचेतनानान्तु तदुपभोगयोग्यता साधनत्वेनानादिकालसिद्धमेव वैचित्र्यमिति नाप्यागाम (गम) स्तत् साधकः । स हि तत्कृतः परकृतो वा स्यात् तत्कृत एव चेत्तस्य सर्वज्ञतां साधयति तर्हि तस्य नीचतापतिं स्वयमेव स्वगुणोत्कीर्तने महतां लाघवात् शक्रोऽपि लघुतां याति । स्वयं प्रख्यापितैर्गुणैरिति वचनात् किं च तस्यागमकर्तृत्वमेवायुक्तं आगमस्य ताल्वादिव्यापारजन्यवर्णात्मकत्वेनाशरीरिणस्तस्य विधाने समर्थत्वात् तस्मान्न तत्कृतागमस्तस्य सार्वज्ञ्यं साधयतीति अन्यकृतश्चेत् स चान्यः सर्वज्ञोऽसर्वज्ञो वा स्यात् सर्वज्ञस्तर्हि तेनैव संसिद्धौ किमित्यन्तर्गडुनेश्वरेण । असर्वज्ञश्चेत्तर्हि कस्तस्य वचसि विश्वासः । अस्मदादिवत्तस्याप्यविशेषात् किञ्च स सर्वज्ञः रचयति चेज्जगत् तर्हि किं तदधिक्षेपकारिणोऽस्मदादीन् सृजतीति तन्नायं सर्वज्ञः ।
न च क्षित्यादिकर्तृत्वेन तस्य सार्वज्ञ्यं सिद्ध्यति तत्र तत्सिद्धौ केचिदिच्छं प्रमाणयन्तिउर्व्वी-पर्वत-तर्वादिकं बुद्धिमत्कर्तृकं कार्यत्वात् यद्यत् कार्यं तत्तत् सर्वं बुद्धिमत्कर्तृकं यथा पटस्तथा चेदं तस्मात्तथेति व्यतिरेके व्योमादि यस्तत्कर्त्ता बुद्धिमान् स ईश्वर एवेति न चायमसिद्धो हेतुः । कार्यत्वस्य सावयवत्वेन पर्वतादौ सिद्धत्वात् नापि व्यभिचारीविरुद्धो वा विपक्षादत्यन्तं व्यावृत्तत्वात् । नापि बाधः प्रत्यक्षानुमानोपमानागमाबाधितत्वात् नापि प्रकरणसमस्तत्प्रतिपंथिप्रत्यनुमानाभावात् नत्वीश्वरो भूभूधरादेर्विधाता न भवति अशरीरित्वात् निर्वृतात्मवदिति प्रत्यनुमानं तद्बाधकमिति चेत् न यतोऽत्रेश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितो न तावदप्रतीतस्तस्याप्रतीतत्वे हेतोराश्रयासिद्धि प्रसङ्गात् प्रतीतश्चेद्येनैव प्रमाणेन स प्रतीतस्तेनैव प्रमाणेन सप्रतीतस्तेनैव किं स्वयमुत्पादितस्व तनुऽप्रतीयतेऽतोऽशरीरित्वाभावेन न प्रकरणसमोऽयं हेतु
पीश्वरस्य वस्तुगत्या शरीरित्वं नास्ति तथाप्यागम- प्रकाशनावसरे तस्य शरीरित्वात् अशरीरित्वाभावः सचोर्वी पर्वत-तर्वादिकर्त्ता एक एव भगवान् सर्वज्ञः बहूनां जगद्विधातृत्व स्वीकारे परस्परवैमत्ये नैकस्यैवान्यान्य रूप - तयासर्वमसर्वादि कर्त्ता एक एव भगवान् सर्वज्ञः । वामंजसमापद्येत इति नास्योर्वादिकर्तृत्वेन सार्वज्ञ्यं सिद्ध्यतीति तदयुक्तं व्याप्तेरग्राहणात् साधनं हि सर्वत्र प्रमाणसिद्धायां व्याप्तौ साध्यगमकं स्यात् । इति तावत् सर्ववादि-संवादः स चायं जगति सृजन् शरीरी वा स्यात् अशरीरी वा सशरीर्यपि किं अस्मदादिवत् दृश्यशरीरी उत पिशाचादिवत् अदृश्य शरीरी प्रथमपक्षे बाधः प्रत्यक्षादिना शरीरित्वस्य तस्यादृश्यमाणत्वेन बाधितत्वात् । द्वितीयविकल्पे तस्यादृश्यशरीरित्वे माहात्म्यविशेषः कारणं अस्मदाद्यदृष्ट-वैगुण्यं वरं प्रथमविकल्पकल्पितकदाग्रहग्रहिलोभवान् कोशपान - प्रत्यायनीयस्तत्सिद्धौ प्रमाणाभाव अन्योन्याश्रयापत्तेश्च सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरित्वं प्रत्येतव्यं तत् सिद्धौ च