________________
જિતેન્દ્ર શાહ
प्रमेयत्व - लक्षणति - प्रतियोगी आहार्यज्ञानविषयत्व दशायामपि व्यवस्थाप्यत इति सिद्धः समवायित्वावच्छिन्न प्रमेयत्व प्रतियोगिकाभावो घट एवेति ।
264
Makaranda
ननु प्रतियोग्यारोपपूर्विका अभावप्रतीतिः सम्भवति न च प्रकृते प्रतियोग्यारोपः संभवति प्रमेयत्वस्य वास्तवत्वात् इति चेत् न । प्रतियोग्यारोपस्याभाव- प्रत्यक्षेऽतन्त्रत्वात् श्यामरूपस्य विनश्यदवस्थस्य ध्वंसग्रहे आरोपादर्शनात् अधिकरणे प्रतियोगिज्ञानमेवाभाव - प्रत्यक्ष कारणं न च घटवत्ता दशायामपि अभावधीप्रसंग इति वाच्यं अभावधी प्रसंगो हि किं अभाव - प्रमा-प्रसंगो भावभ्रम-प्रसंगो वा नाद्यस्तत्र घटस्याविद्यमानत्वेन तद्विषयकज्ञानस्याप्रमात्वात् न भ्रमोऽपि तदानीमिन्द्रियस्या दुष्टत्वेन भ्रमत्वाभावात् । तस्मा (दभा) व ग्रहेऽधिकरणे प्रतियोगिज्ञानं तन्त्रं न तु प्रतियोग्यारोप इति । ननु समवायित्वावच्छिन्न प्रमेयत्व ग्रहदशायां यद्दोष - साचिव्यम् । तद्दोषसाचिव्यं तदभाव ग्रहेऽपि अस्ति नवेति चेदस्ति तर्हि प्रतियोगिग्राहके विद्यमाने कथं तदभावग्रहः स्यात् अथ चेन्नास्ति तर्हि प्रतियोगितद् व्याप्येतर - सकलप्रतियोगिग्राहकग्राह्यत्वाभावेन कथं तदभावोऽपि गृह्यत इति चेत् न समवायित्वावच्छिन्नाप्रमेयत्व ग्राहकाहार्यज्ञान-ग्राह्यत्वात्तस्तेति पूर्वोक्त दोषा सम्भवादिति । तस्मादविनाभावनिरूपकाभिधेयत्वलक्षणसाध्यप्रतियोगिकाभावस्य घटे एव प्रसिद्धत्वेन नाव्याप्तिरिति साध्याविनाभावो व्याप्तिस्तन्नित्यत्वं च हेतोर्लक्षणं इति सिद्धम् ॥
योग्यता विशेषात्तर्क निर्णीत्यविनाभावेन साध्यविज्ञानं स्वार्थसाध्यसाधने तद्विमर्शिवचनोद्भूतं परार्थानुमानं तद्वचनस्यापि तदर्थ हेतुत्वात् प्रामाण्यमुपचारात् मुख्यतस्तु ज्ञानस्यैवेति । तत्र हेतु-प्रयोगो द्वेधा तथोपपत्तिरन्यथानुपपत्तिश्चेति । यदिदं साधनत्वाभिमतं धूमादि वस्तुसाध्यत्वाभिमते वह्नौ सत्येव भवतीति तथोपपत्तिमन्यथाभावेन भवतीत्यन्यथानुपपत्तिं तत्रापि हेतोरन्तर्याप्त्य साध्यसिद्धौ वह्निव्याप्तिप्रयोगो व्यर्थ एव पक्षीकृते साध्यस्य साधनेन सह व्याप्तिरन्तर्व्याप्ति-र्यथा सर्वमनेकान्तात्मकं सत्वादिति धूमादिना वन्यादौ साध्य -बहिर्व्याप्तिरेवातः साध्याविना-भावनियम-लक्षणस्य हेतोर्व्याप्यत्वं साध्यस्य व्यापकत्वमिति । प्रतिज्ञा द्वयमेवानुमानाङ्गं मन्दमति प्रतीत्यर्थं दृष्टान्तोऽपि ज्ञेयः स च द्विधा साधर्म्य वैधर्म्य भेदात् इदं द्रव्यं पृथिवीत्वाद्घटवदिति साधर्म्यदृष्टान्तः । जीवच्छरीरं सात्मकं प्राणादिमत्वात् इति वैधर्म्यदृष्टान्तः । वस्तुतस्तु प्रतिज्ञाहेतुभ्यामेव साध्यसिद्धेः शेषावयवव्यर्थत्वमिति । ततः साध्यं प्रतिपित्सुना हेतुप्रयोगवत् पक्षप्रयोगोप्यङ्कीकार्यः । ततः साध्याविनाभाव - नियम - लक्षणो हेतुरिति सिद्धम् साध्यसाधनं तद्विमर्शिवचनोद्भूतं परार्थानुमानं उपमानञ्च प्रत्यभिज्ञानान्त: पात्यनुमानम् ।
अथास्पष्ट प्रमाणान्तः पात्यागमो निरूप्यते । साक्षादाप्तज्ञानातिशयपरिछिन्न यथावदर्थप्रतिपत्तिरागमः स च शब्दात्मकः । आप्तप्रणीतत्वात् आप्तश्चातीन्द्रियार्थद्रष्टा केवलज्ञानी । अतएव नेश्वरप्रणीतवेदानां प्रामाण्यं तस्य सार्वज्ञ्याभावेनानाप्तत्वान्न चोर्व्यादि कर्तृत्वेन नित्यत्वेन स्वातन्त्र्येण च तस्य सार्वज्ञं सिद्धमिति वाच्यम् । सार्वज्ञ्य निषेधे तन्निषेधात् तथाहि तस्य सार्वज्ञ्यं केन प्रमाणेन गृहीतं प्रत्यक्षेण परोक्षेण वा । न तावत् प्रत्यक्षेण तस्येन्द्रियार्थसन्निकर्षोत्पन्नतया