________________
૩૨
શ્રી મેહનલાલજી અર્ધશતાબ્દી ગ્રંથ: मुपेताः । चतुरो मासान् गमयित्वा च ततः श्रावस्त्ययोध्ययोः सविधि यात्रे कृते । परतश्च हस्तिनापुरसुन्नपुरयोर्विहरन्तो जयपुरराज्यभुवं प्रविष्टाः।
एकदा विहारकाले मार्ग एव गभस्तिमालिनोऽस्तं गमनादेकत्रोद्यान एव निशावास आचरितः । निर्जने तस्मिन् वने कश्चन व्याघ्रः पुच्छमुच्छालयन्नुपेतस्तमवलोक्य च मुनिवरैर्जिनादेशानुसारं कायोत्सर्ग कृत्वा शरीरं प्रति सर्वथा ममत्वमपाकृतम् । तादृशीगचलां ध्याननिष्ठां विलोक्य व्याघ्रोऽपि वेयाघ्री वृत्तिं परित्यज्य पृष्ठपाद् बभूव ।
त्रिंशदुत्तरैकोनविंशतितमे संवत्सरे जयपुरे वर्षावासं विधायाजयमेरु ( अजमेर) मुपेतास्तत्र च श्री सम्भवनाथभगवतः समक्षं संवेगित्वं प्रधार्य क्रियोद्धार आचरितः । ततो मरुभुवि पालीनगरे श्रावकानामाग्रहेण वर्षावासं विधाय सिरोहीनगर्यामुपेता यत्रोपदेशामृतं पातुं तत्रत्या भूपाला अपि समागताः । पुनः परावृत्य पाली-कटपुर (सादडी) योधपुराजयमेरुषु विहृत्याजयमेरो. र्योधपुरं चक्षुःस्फुरणमभूत् । फलं च तस्य “कश्चन आलमचन्द्रनाम्नो जनस्य चारित्रोदयं नैकटिकं सम्भाव्य शुभे मुहूर्ते तस्मै दीक्षा प्रदत्ता” इत्यभूत् । पश्चाद् योधपुरादिषु विहृत्य वर्षत्रितया. नन्तरं भूयोऽप्यजयमेरुपत्तने ज्येष्ठनामकः श्रावको दीक्षितः । अतः परं यात्राकर्तुकामैरेतैः सिद्धाचलं प्रति प्रस्थितम् । पथि समागतानां तीर्थवराणां स्पर्शनाः सम्पाद्य पट्टणादिषु श्रीसङ्घानामाप्रहाद् यथाकालं चातुर्मासान् व्यत्यापयन्तो डीसानगर्यो बहादुरमल्लाय दीक्षामदुः । क्रमशश्चार्बुदतीर्थ-पञ्चतीर्थादीनां यात्रा सम्पादयन्तो योधपुर-फलोधि-जेसलमेर-पञ्चतीर्थ्यर्बुदाचल-सिद्धाचलादितीर्थस्पर्शना विधाय स्वसङ्कल्पितो नवनवतियात्राणां मनोरथः पूरितः। अस्याभ्यन्तरिके काल एव मुनिवेषधारिणे मुमुक्षवे खराडीग्रामे एकस्मै जनाय दीक्षाऽदायि हर्षमुनेर्नाम्ना च स व्यवहृतः । ततश्च
यशो व्याप्तं श्रुत्वा दिशि दिशि जना मोहनमुनेः, सुधावाचः पातुं सुरतनगरस्था उपगताः । विलोक्यालं भक्तिं तदनु समुपेता रविपुरं,
प्रदत्ता दीक्षाऽत्राऽघहरणदक्षा सुविधिना ॥ इतः परं मोहमय्याः श्रीसङ्घस्याभ्यर्थनामूरीकृत्य तत्र गताः । भूयसी शासनोन्नतिश्चात्र सम्पाद्य नानाविधानि धर्मकृत्यानि समाचर्य च देशनाप्रभावितान् मुमुक्षुन् दीक्षितान् विधाय 'षड्री' पालनपूर्वकं चतुर्विधसंघेन सह सिद्धाचलयात्रायै प्रतिज्ञातम् । यत्र तत्र जीर्णोद्धार-दीक्षादानचातुर्मासयापनाञ्जनशलाकामहोत्सवविधिप्रभृतिधर्मकृत्यैजैनधर्मध्वजमुन्नमयन्तो लक्षशो मुद्रा विविधभक्तापितास्तत्तत्कर्मसु सम्प्रयोजयन्तो गूर्जरप्रदेशे मरुप्रदेशे च विहारा अभवन् । अनेके शिष्याः पंन्यासपदवीं गणिपदं च प्रापिताः । एवं शिष्यप्रशिष्यैरतितरामाराधिताः अनेकत्र देवालयादिनिर्मापकाः श्रीमोहनलालमहाराजा भरतभूतलं पावयन्तः कदाचिन्मोहमय्यां कदाचन सूर्यपुरे मध्ये मध्ये धर्मप्रधानेषु नगरेषु च नानाविधानि, धर्मकर्माणि कारयामासुः । प्रान्ते जराजर्जरमिदं कलेवरं जिहासव इव श्रीमुनिराजा सूर्यपुरमभ्युपेताः । अत्र चान्तिमं कालं विचार्य गुरूणां प्रायः सार्धद्विलक्षमुद्राणां धर्मकृत्यं प्रतिज्ञातम् । दुर्दैववशाच्च द्वाषष्ट्युत्तरैकोनविंशतितमे वत्सरे चैत्रकृष्णद्वादश्यां जैनधर्मस्य प्रतिभाभासुरोऽयमपूर्वो भास्करः सहसास्तमगात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org