________________
श्री यतीन्द्रसूरि अभिनंदन ग्रंथ
जीवन
न स भवान् स्तुत्यर्हः ? किराते कटुसत्यवादिना भारविणा समुल्लिखितमस्ति यद्हियते विषयैः प्रायो वर्षीयानपि मादृशः ' इति तत् त्वया साधु समारम्भि नवे वयसि यत् तपः' इत्येव त्वद्विषये सत्यमस्ति ।
·
(
६०
मन्ये साधुत्वमपि त्वयि यथार्थ दृश्यते । न केवलं बहिरङ्गेण रक्तशुभ्रवस्त्रधारणेन, मुण्डितमस्तकत्वेन, जटामण्डलधारणेन, दण्डकमण्डलुना वा साधुत्वं सिद्धं भवति, किन्तु अन्तरङ्गमपि यस्य सर्वथा शुद्धम्, अर्थात् विषयरागेण न रक्तम्, न पापाचरणेन मलिनम् स एव साधुपदवीं समारोढुं सर्वथा समर्थः । स्वशरीरस्यापि येन चिन्ता न कृता, स एव यथार्थ साधुः 'मरणं प्रकृतिः शरीरिणांविकृतिर्जीवितमुच्यते बुधै : ' इति कालिदासोक्तौश्रद्धधानो भवानपि पूर्वोक्तगुणविशिष्टोऽस्ति इत्यत्र नास्तिकस्यापि संशयः । किं च सुवर्णे सुगंधमिव त्वयि, त्यागेन तपसा च सार्धं विद्वत्वं, व्याख्यानपटुत्वं, विनयशालित्वं च दृष्ट्वा को नाम भवन्तं मानवरत्नं शिरोभूषणं न कुर्यात् ? आनन्दसागरे वा न निमज्जेत् ?
लक्ष्मीकृपापात्रं पृथक्जनं यं कमपि श्रीमन्तं वदन्तु नाम साधारणाः किन्तु यथार्थ : श्रीमान् भवानेव मन्मते यत :
" लब्धारो विपुलाश्च सन्ति विबुधा विद्याधनस्याधुना किन्त्वालस्यसुगुप्तदस्युमुषिता: प्रायो ऽ खिलानिर्धनाः । वार्धक्ये ऽपि निरन्तराध्ययनतस्तद्भासुरा भास्करा : श्रीमन्तस्तु भवन्त एव भुवने लक्ष्मीसुतास्त्वामनु ॥
"2
:
कुलिकाले ऽस्मि बाल्ये बहुकालपर्यन्तं मातृपितृसुखं केनचिदेव लभ्यते न सर्वेण । भवतापि तन्न लब्धम्, किन्तु शीतलमातुलतरुतलच्छायायां कञ्चित् कालं स्थित्वा पश्चात् स्वतन्त्र भूत्वा पुण्यतीर्थानि दर्शदर्श भ्रमता भवता पुण्यकर्मोदयभाजा: परमपुण्यतीर्थभूतः अधुना दिवंगतोऽपि श्रीमद्राजेन्द्राभिधान कोषकीर्तिकायेन चिरं भूवलयं अलंकुर्वाणो मैनादिशास्त्रपारंगतो विद्याभास्करो विद्वन्मुकुटमणि मूर्तिमान् तपोभूमिः प्रातःस्मरणीय : स विजयराजेन्द्रसूरीश्वर समालब्धः । यस्यसमीपे अन्तेवासित्वं स्वीकृत्य प्रसिद्धेषु मार्गेषु विद्योपार्जनकर्मणि अन्तिमौ मार्गों धर्तुं असमर्थेन भवता 'गुरुशुश्रूषयाविद्या' इति प्रथमेनानेन मार्गेण तच्चरणयोः शास्त्राभ्यासः कृतः । यस्य च गुरोः प्रतिदिनं वचनामृतेन आप्यायितो भवान् प्रवृत्तिनिवृत्त्युभयरूपेण पुरतः प्रवहन्तीं चित्तनदीं विलोक्य, मनसिपूर्ण विचार्य, धीरत्वमवलम्ब्य च मुनेरपि दुस्त्यजं प्रवृत्तिपथं परित्यज्य निवृत्तिपथमेव स्वीकृतवान् । युक्तं चैतत् यतःश्रुतिरपि -
6
यदहरेव विरहेत् तदहरे व प्रव्रजेत' इतीमं पन्थानं स्तौति, उपनिषदोऽप्येनमेव मार्गे धीरस्य कृते दर्शयन्ति । तदितरं च मन्दमार्गे निन्दन्ति “ श्रेयः प्रेयश्चमनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः श्रेयो हि धीरोऽभिप्रेयसोवृणीते प्रेयोमन्दो योगक्षेमाद् वृणीते ' इति ' अयमेव सर्वस्य सारः । यद्- आपातरम्यान् पर्यन्तपरितापिनः आहेयान् भोगानिव भोगान्, सर्वापचिगृहभूतान् दूरत एव समुज्जित्य स्वमार्गः निर्भीकः निष्कण्डकश्च कृतो भवता ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org